प्रतिशुक्रकृतं दोषं हॄन्तुं शक्ता ग्रहा न हि
एतेषां पञ्चगोत्राणां प्रतिशुक्रो न विद्यते
द्विजक्षोभे नृपक्षोभे प्रतिशुक्रो न विद्यते
यातुर्भङ्गप्रदः शुक्रः स्वोञ्चस्थश्चेज्जयप्रदः
तेषामीशस्थराशौ वा यातुर्मृत्युर्न संशयः
जन्मराश्यष्टमर्क्षोत्थदोषा नश्यन्तिं भाक्तः
याने स्थिरोदये नेष्टो भव्ययुक्तेक्षितः स्वयम्
याम्यदिग्गमनं शय्या न कुर्याद्गेहगोपनम्
ताभ्यां तयोरिकेन्द्रेषु यातुः शत्रुक्षयो भवेत्
शुभवार्गोथ वा लग्ने यातुः शत्रुक्षयस्तदा
तयोरीशस्थिते राशौ यातुः शत्रुक्षयो भवेत्
निन्द्यो निखिलयात्रासु घटलग्नो घटांशकः
मूर्तिः कोशो धन्विनश्च वाहनं मन्त्रसंज्ञकम्
प्राप्तिरप्राप्तिरुदयाद्भावाः स्युर्द्वादशैव ते
न निघ्नतो हि व्यापारं सौम्याःढ पुष्णन्त्यरिं विना
याम्यदिग्गमनं त्यक्त्वा सर्वकाष्ठासु यायिनाम्
पञ्चाङ्गशुद्धिरहिते दिवसे ऽपि फलप्रदः
फलसिद्धिर्यागलग्नाद्राज्ञां विप्रश्य धिष्ण्यतः
केन्द्रत्रिकोणे ह्येकेन योगः शुक्रज्ञसूरिणाम्
योगे ऽपि यायिनां क्षेममधियोगे जयो भवेत्
व्यापारशत्रुमूर्तिस्थैश्चन्द्रमन्ददिवाकरैः
शुक्रार्कज्ञार्किभौमेषु लग्नाध्वस्तत्रिशत्रुषु
लग्नस्थे त्रिदशाचार्ये धनायस्थैः परग्रहैः
लग्ने शुक्रे रवौ लाभे चन्द्रे बन्धुस्थिते यदा
स्वोच्चसंस्थे सिते लग्ने स्वोच्चे चन्द्रे च लाभगे
त्रिकोणे केन्द्रगाः सौम्याः क्रूरास्त्र्यायारिगा यदि
जीवार्कचन्द्रा लग्नारिरन्ध्रगा यदि गच्छतः
त्रिखडायेषु मन्दारौ बलवन्तः शुभा यदि
स्वोञ्चस्थे लग्नगे जीवे चन्द्रे लाभगते यदि
मस्तकोदयगेशुक्र लग्नस्थे लाभगे गुरौ