भावाभावस्वरुपा सा विद्याविद्येति गीयते
तदा ह्यविद्या संसिद्धा भवेद्दुःखस्य साधनम्
सर्वैकभावना बुद्धिः सा विद्येत्यभिधीयते
अभेदबुद्ध्या दृष्टा चेत्संसारक्षयकारिणी
यस्माद्भिन्नमिदं सर्वं यच्चेङ्गेद्यच्चनेङ्गति
अविद्योपाधियोगेनतथेदमखिलं जगत्
दाहशक्तिर्यथाङ्गारे स्वाश्रयं व्याप्य तिष्टति
भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च
कौमारी वैष्णवी चेति वाराह्येन्द्री च शाम्भवी
प्रकृतिश्च परा चेति वदन्ति परमर्षस्यः
व्यक्ताव्यक्तस्वरुपेण जगह्याप्य व्यवस्थिता
सृष्टिस्थितिविनाशानामेकः कारणतां गतः
तस्मात्परतरो देवो नित्यैत्यभिधीयते
रक्षां करोति यो देवो जगतां परतः पुमान्
तस्मात्परतरं यत्तदव्ययं परमं पदम्
यः परः कालपुपाख्यो योगिध्येयः परात्परः
ज्ञानैकवेद्यः परमः सञ्चिदानन्दविग्रहः
देहीति प्रोच्यते मूढैरहो ऽज्ञानविडम्बनम्
मूर्तित्रयं समापन्नः सृष्टिस्थित्यन्तकारणम्
स एवानन्दरुपात्मा तस्मान्नास्त्यपरो मुने
भिन्नाभिन्नस्वरुपेण स्थितो वै परमेश्वरः
विश्वोत्पत्तेर्निदानत्वात्प्रकृतिः प्रोच्यते बुधैः
प्रकृतिः पुरुषश्चेति कालश्चेति त्रिधा भवेत्
शुद्धं यत्परमं धाम तद्विष्णोः परमं पदम्
गुणरुपीगुणाधारोजगतामादिकृद्विभुः
महान्प्रादुरभूद्धुद्धिस्ततो ऽहं समवर्त्तत
तन्मात्रेभ्यो हि जातानि भूतानि जगतः कृते
यथाक्रमं कारणतामेकैकस्योपयान्ति च
तिर्यग्योनिगताञ्जन्तून्पशुपक्षिमृगादिकान्
ततो वैमानुषं सर्गं कल्पयामास पह्मजः