मृगः पितृगणाधिशस्ततो दौवारि काह्वयः
अथेशानादिकोणस्थाश्चात्वारस्तत्समीपगाः
एकान्तरा स्युः प्रागाद्याः परितो ब्रह्मणः स्मृताः
मित्रोथ राजयक्ष्मा च तथा पृथ्वीधराह्वयः
आपश्चैवापवत्सश्च पर्जन्यो ऽग्निर्दितिः क्रमात्
तन्मध्ये विंशतिर्बाह्या द्विपदास्ते तु सर्वदा
ब्रह्मणः पारितो दिक्षु चत्वारस्त्रिपदाः स्मृताः
वास्तुमन्त्रेण वास्तुज्ञो दूर्वादध्यक्षतादिभिः
आवाहनादिसर्वोपचारांश्च क्रमशस्तथा
ताम्बूलं च ततः कर्ता प्रार्थयेद्वास्तुपूरुषम्
मद्गृहे धनधान्यादिसमृद्धं कुरु सर्वदा
दद्यात्तदग्रे विप्रेभ्यो भोजनं च स्वशक्तितः
आरोग्यं पुत्रलाभं च धनं धान्यं लभेन्नरः
रोगान्नानाविधान्क्लेशानश्नुते सर्वसंकटम्
गृहं न प्रविशेदेवं विपदामाकरं हि तत्
स्यात्तथा तां प्रवक्ष्यामि सम्यग्विज्ञातजन्मनाम्
प्रश्नोदयनिमित्ताद्यैस्तेषामपि फलोदयः
यात्रा शुक्लप्रतिपदि निर्द्धनाय क्षयाय च
असप्तपञ्चत्र्याद्येषु यात्राभीष्टफलप्रदाः
सितार्कयेर्न प्रतीचीं नोदीचीं ज्ञारयोर्द्दिने
शूलानि सर्वद्वाराणि मित्रार्केज्याश्वभानि च
परिघं लङ्घयेद्दण्डं नाग्निश्वसनर्दिग्गमम्
दिग्राशयस्तु क्रमशो मेषाद्याश्च पुनः पुनः
लग्नस्थो भास्करः प्राच्यां दिशि यातुर्ललाटगः
दशमस्थः कुजो लग्नाद्याभ्यां यातुर्ललाटगः
लग्नात्सप्तमगः सौरिः प्रतीच्यां तु ललाटगः
चतुर्थस्थानगः सौम्यश्चोत्तरस्यां ललाटगः
ललाटं तु परित्यज्य जीवितेच्छुर्व्रजेन्नरः
तस्य भङ्गप्रदो राज्ञस्त द्वर्गो ऽपि विलग्नगः
तदभावे दिवारात्रौ यायाद्यातुर्वधो ऽन्यथा