अष्टास्रं च तृतीयासौ मन्वस्रं मृदुमव्रणम्
षड्वर्गशुद्धिसूत्रेण सूत्रिते धरणीतले
व्यर्कारचरलग्नेषु पापे चाष्टमवर्जिते
शुभेक्षिते ऽथ वा युक्ते लग्ने शङ्कुं विनिक्षिपेत्
स्वत्रिकेन्द्रत्रिकोणस्थैः शुभैस्त्र्यायारिगैः परैः
एकद्वित्रिचतुःशालाः सप्त शाला दशाह्वयाः
ध्रुवं धान्यं जयं नन्दं खरः कान्तं मनोरमम्
आक्रन्दं विपुलाख्य च विजयं षोडशं गृहम्
गुरोरघो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्न्यसेत्
कुर्याल्लघुपदे ऽलिन्दं गृहद्वारात्प्रदक्षिणम्
स्नानागारं दिशि प्राच्यामाग्नेय्यां पाकमन्दिरम्
प्रतीच्यां भोजनगृहं वा यव्यां धान्यमदिरम्
शय्यामूत्रास्त्रतद्विच्च भोजनं मङ्गलाश्रयम्
ईशान्यादिक्रमस्तेषां गृहनिर्माणकं शुभम्
ध्वजो धूम्रोथ सिंहः श्वा सौरमेयः खरो गजाः
प्लक्षोदुंबरचूताख्या निंबस्तु हि विभीतकाः
अगस्तिसिंधुवालाख्यतिन्तिडीकाश्च निन्दिताः
गृहपादागृहस्तभाः समाः शस्ताश्च नासमाः
गृहोपरि गृहादीनामेवं सर्वत्र चिन्तयेत्
पाञ्चालमानं वैदेहं कौरवं च कुजन्यकम्
सचतुर्भागविस्तारमुत्सेधं यत्तदुच्यते
वैदेहादीन्यशेषाणि मानानि स्युर्यथाक्रमम्
अवन्तिमानं विप्राणां गान्धारं क्षत्रियस्य च
यथोदितं जलस्त्राव्यं द्वित्रिभूमिकवेश्मनाम्
पशुशालाश्च शालानां ध्वजायेप्यथ वा गजे
वास्तुपूजाविधिं वक्ष्ये नववेश्मप्रवेशने
गृहमध्ये तण्डुलोपर्येकाशीतिपदं भवेत्
द्वात्रिन्द्वाह्यतः पूज्यास्तत्रान्तःस्थास्रयोदश
ईशानकोणतो बाह्यो द्वात्रिंशत्र्रिदशा अमी
सूर्यः शशी मृगाकाशौ वायुः पूषा च नैरृतिः