पिशाचांशे गृहारंभे दुःखशोकभयप्रदः
शिराः स्युर्वास्तुनोरेखा दिग्विदिग्मध्यसंभवाः
तत्र तत्र विजानीयाद्वास्तुनो मर्मसंधयः
सौम्यफआल्गुनवैशाखमाघश्रावणकार्तिकाः
अकारादिषु भाग्षु दिक्षु प्रागादिषु क्रमात्
दिग्वर्गाणामियं योनिः स्ववर्गात्पञ्चमो रिपुः
व्यत्यये नाशनं तस्य ऋणमध्यं धनाच्छुभम्
विभेजेत्सप्तभिः शेषं साधकस्य धनं तदा
तस्माद्धनाधनायर्क्षवारांशाः संख्यया क्रमात्
विषमायः शुभघायैव समायो निर्धनाय च
आत्मक्षयः सप्तमर्क्षे भवत्येव हि भर्तृभात्
षट्काष्टकं मृत्यवे स्याच्छुभदाराशयः परे
इतरे ग्रहवारांशाः सर्वकामार्थसिद्धिदाः
पूर्वादिकशिरोवामपार्श्वेशायाप्रदक्षिणम्
यद्दिङ्मुखो वास्तुपुमान् कुर्यात्तद्दिङ्मुखं गृहम्
सबलो मुखगेहानामेष दोषो न विद्यते
गृहमध्ये हस्तमात्रे गर्ते न्यासाय विन्यसेत्
कुक्षिस्तस्मिन्न्यसेच्छङ्कुं पुत्रपौत्रविवर्धनम्
विप्रादीनां कुक्षिमानं स्वर्णवस्त्राद्यलङ्कृतम्
रक्तचन्दनपालाशरक्तशानविशालजम्
अष्टास्रं च तृतीयासौ मन्वस्रं मृदुमव्रणम्
षड्वर्गशुद्धिसूत्रेण सूत्रिते धरणीतले
व्यर्कारचरलग्नेषु पापे चाष्टमवर्जिते
शुभेक्षिते ऽथ वा युक्ते लग्ने शङ्कुं विनिक्षिपेत्
स्वत्रिकेन्द्रत्रिकोणस्थैः शुभैस्त्र्यायारिगैः परैः
एकद्वित्रिचतुःशालाः सप्त शाला दशाह्वयाः
ध्रुवं धान्यं जयं नन्दं खरः कान्तं मनोरमम्
आक्रन्दं विपुलाख्य च विजयं षोडशं गृहम्
गुरोरघो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्न्यसेत्
कुर्याल्लघुपदे ऽलिन्दं गृहद्वारात्प्रदक्षिणम्