दिक्साधनाय तन्मध्ये समं मण्डलमालिखेत्
चतुरस्रीकृते क्षेत्रे षड्वर्गपरिशोधिते
आयामेषु चतुर्दिक्षु प्रागादिषु च सत्स्वपि
प्रदक्षिणक्रमात्तेषाममूनि च फलानि वै
अतिचौर्यमतिक्रोधो भीतिर्दिशि शचीपतेः
अनान्तकं व्याधिभयं निःसत्त्वं दक्षिणादिशि
सौभाग्यमतिदौर्भाग्यं दुःखं शोकश्च पश्चिमे
संपद्वृद्धिर्मासभीतिरामयं दिशि शीतगोः
पश्चिमे दक्षिणे वापि कपाटं स्थापयेद्गृहे
मध्ये नवपदे ब्रह्मस्थानं तदतिनिन्दितम्
पिशाचांशे गृहारंभे दुःखशोकभयप्रदः
शिराः स्युर्वास्तुनोरेखा दिग्विदिग्मध्यसंभवाः
तत्र तत्र विजानीयाद्वास्तुनो मर्मसंधयः
सौम्यफआल्गुनवैशाखमाघश्रावणकार्तिकाः
अकारादिषु भाग्षु दिक्षु प्रागादिषु क्रमात्
दिग्वर्गाणामियं योनिः स्ववर्गात्पञ्चमो रिपुः
व्यत्यये नाशनं तस्य ऋणमध्यं धनाच्छुभम्
विभेजेत्सप्तभिः शेषं साधकस्य धनं तदा
तस्माद्धनाधनायर्क्षवारांशाः संख्यया क्रमात्
विषमायः शुभघायैव समायो निर्धनाय च
आत्मक्षयः सप्तमर्क्षे भवत्येव हि भर्तृभात्
षट्काष्टकं मृत्यवे स्याच्छुभदाराशयः परे
इतरे ग्रहवारांशाः सर्वकामार्थसिद्धिदाः
पूर्वादिकशिरोवामपार्श्वेशायाप्रदक्षिणम्
यद्दिङ्मुखो वास्तुपुमान् कुर्यात्तद्दिङ्मुखं गृहम्
सबलो मुखगेहानामेष दोषो न विद्यते
गृहमध्ये हस्तमात्रे गर्ते न्यासाय विन्यसेत्
कुक्षिस्तस्मिन्न्यसेच्छङ्कुं पुत्रपौत्रविवर्धनम्
विप्रादीनां कुक्षिमानं स्वर्णवस्त्राद्यलङ्कृतम्
रक्तचन्दनपालाशरक्तशानविशालजम्