शुक्लपक्षेषु कृष्णेषु तदादिष्वष्टसु शुभम्
द्वतीयादिद्वये पञ्चम्यादितस्तिसृषु क्रमात्
त्र्युत्तरादितिचन्द्रान्त्यहस्तत्रयगुरूडुषु
कुजवर्जितवारेषु कर्तुः सूर्ये बलप्रदे
शुभलग्ने शुभांशे च कर्त्तुर्न निधनोदये
पञ्चाष्टके शुभे लग्ने नैधने शुद्धिसंयुते
कर्त्तुर्मृत्युप्रदाश्चान्ये धनधान्यसुखप्रदाः
तृतीये निखिलाः खेटाः पुत्रपौत्रसुखप्रदाः
ग्लानिदाः पञ्चमे क्रूराः सौम्याः पुत्रसुखप्रदाः
व्याधिदाः सप्तमे पापाः सौम्याः शुभफलप्रदाः
धर्मे पापा घ्नन्ति सौम्याः शुभदा मङ्गलप्रदाः
लाभस्थानगताः सर्वे भूरिलाभप्रदा ग्रहाः
हॄन्त्यर्थहीनाः कर्तारं मन्त्रहीनास्तु ऋत्विजम्
गुणाधिकतरे लग्ने दोषः स्वल्पतरो यदि
निर्माणायतनग्रामगृहादीनां समासतः
मधुपुष्पाम्लपिशितगन्धं विप्रानुपूर्वकम्
मधुरं कटुकं तिक्तं कषायकरसं क्रमात्
अन्यदिक्षु प्लवे तेषां शश्वदत्यन्तहानिदम्
अत्यन्तवृद्धिरधिके हीने हानिः समे समम्
प्रातर्दृष्टे जले वृद्धिः समं पङ्के क्षयः क्षये
दिक्साधनाय तन्मध्ये समं मण्डलमालिखेत्
चतुरस्रीकृते क्षेत्रे षड्वर्गपरिशोधिते
आयामेषु चतुर्दिक्षु प्रागादिषु च सत्स्वपि
प्रदक्षिणक्रमात्तेषाममूनि च फलानि वै
अतिचौर्यमतिक्रोधो भीतिर्दिशि शचीपतेः
अनान्तकं व्याधिभयं निःसत्त्वं दक्षिणादिशि
सौभाग्यमतिदौर्भाग्यं दुःखं शोकश्च पश्चिमे
संपद्वृद्धिर्मासभीतिरामयं दिशि शीतगोः
पश्चिमे दक्षिणे वापि कपाटं स्थापयेद्गृहे
मध्ये नवपदे ब्रह्मस्थानं तदतिनिन्दितम्