सौरभं कुरुते सर्वं तथैव सुजनोजनः
संजातं शासितुं लोकांस्त्वां विदुः पुरुषोत्तम
नमो ब्रह्मण्यशीलाय ब्रह्मध्यानपराय च
वरं वरय चेत्याह प्रसन्नो ऽस्मि तवानघ
प्रापयास्मत्पितॄन्ब्राह्मं लोकमित्यभ्यभाषत
गङ्गामानीय पौत्रस्ते नयिष्यति पितॄन्दिवम्
कृत्वैतान्धूतपापान्वै नयिष्यति परं पदम्
पितामहान्तिकं प्राप्य साश्वं वृत्तं न्यवेदयत्
विधाय तपसा विष्णुमाराध्यापपदंहरेः
तस्माद्भगीरथो जातो यो गङ्गामानयद्दिवः
गङ्गां भगीरथायाः चिन्तयामा स धारणे
आनीय तज्जलैः स्पृष्ट्वा पूतान्निन्ये दिवं पितॄन्
यस्य पुत्रो मित्रसहः सर्वलोकेषु विश्रुतः
गङ्गाबिन्दुनिषेवेणंपुनर्मुक्तो नृपो ऽभवत्
गङ्गाबिन्दूभिषेकेण पुनः शुद्धो ऽबयत्कथम्
शृण्वतां वदतां चैव गङ्गाख्यानं शुभावहम्
बुभुजे पृथिवीं सर्वां पितृवद्रञ्जयन्प्रजाः
रक्षिता तद्वदमुना सर्वधर्माविरोधिना
त्रिंशदष्टसहस्राणि बुभुजे पृथिवीं युवा
विवेश्व सबलः सम्यक् शोधितं ह्यासमन्त्रिभिः
आससाद नदीं रेवां धर्मज्ञः स पिपासितः
भुक्त्वा च मन्त्रिभिः सार्ध्दं तां निशां तत्र चावसत्
बभ्राम मन्त्रिसहितो नर्मदातीरजे वने
आकर्णकृष्टबाणः सत् कृष्णसारं समन्वगात्
व्याघ्रद्वयं गुहासंस्थमपश्थमपश्यत्सुरते रतम्
धनुःसंहितबाणेन तेनासौ शरशास्त्रवित्
पतमाना तु साव्याघ्री षट्रत्रिंशद्योजनायता
पतितां स्वप्रियां वीक्ष्य द्विषन्स व्याघ्रराक्षसः
राजा तु भयसंविग्नो वनेसैन्यं समेत्य च
शङ्कमानस्तु तद्रक्षःकृत्या द्राजा सुदासजः