आखुगोमहिषव्याघ्रकालीव्याघ्रमृगद्वयम्
सिंहगोदन्तिनो भानां योनयः स्युर्यथाश्विभात्
गोव्याघ्रमाखुमार्जारं महिषाश्चं च शात्रवम्
पुंवर्णराशेः स्त्रीराशौ सतिहीने यथाशुभम्
वह्निभादिन्दुभान्नाडीत्रिचतुःपञ्चपर्वसु
प्राजापत्यब्राह्मदैवा विवाहाश्चार्षसंयुताः
गन्धर्वासुरपैशाचराक्षसाख्यास्तु सर्वदा
गोधूलिकं तदुभयं विवाहे पुत्रपौत्रदम्
अभिजित्सर्वदेशेषु मुख्यो दोषविनाशकृत्
नाशयत्यखिलान्दोषान्पिनाकी त्रिपुरं यथा
न तयोर्व्रतमुद्वाहान्मङ्गले नान्यमङ्गलम्
असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवेत्
न चैकजन्ययोः पुंसोरेकजन्ये तु कन्यके
दिवाजातस्तु पितरं रात्रौ तु जननीं तथा
सुतः सुता वा नियतं श्वसुरं हॄन्ति मूलजः
ज्येष्टान्त्यपादजौ ज्येष्टं बालो हॄन्ति न बालिका
सैन्द्री धवाग्रजं हॄन्ति देवरं तु द्विदैवजा
वधूप्रवेश संपत्त्यैदशमे सप्तमे दिने
संत्यज्य ह्यतिशुक्रे ऽपि यात्रा वैवाहिकी शुभा
गीर्वाणपूर्वगीर्वाणमत्रिणोर्दृश्यमानयोः
शुक्लपक्षेषु कृष्णेषु तदादिष्वष्टसु शुभम्
द्वतीयादिद्वये पञ्चम्यादितस्तिसृषु क्रमात्
त्र्युत्तरादितिचन्द्रान्त्यहस्तत्रयगुरूडुषु
कुजवर्जितवारेषु कर्तुः सूर्ये बलप्रदे
शुभलग्ने शुभांशे च कर्त्तुर्न निधनोदये
पञ्चाष्टके शुभे लग्ने नैधने शुद्धिसंयुते
कर्त्तुर्मृत्युप्रदाश्चान्ये धनधान्यसुखप्रदाः
तृतीये निखिलाः खेटाः पुत्रपौत्रसुखप्रदाः
ग्लानिदाः पञ्चमे क्रूराः सौम्याः पुत्रसुखप्रदाः
व्याधिदाः सप्तमे पापाः सौम्याः शुभफलप्रदाः