सूर्यभात्सार्प्पपित्र्यान्त्यत्वाष्ट्रमित्रोडुविष्णुभम्
सौराष्ट्रे साल्वदेशे तु लत्तितं भं विवर्जयेत्
बाह्लिके कुरुदेशे चान्यस्मिन्देशे न दूषणम्
मध्यदेशे विवर्ज्यानि न दृष्टानीतरेषु च
गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः
अपि धातुरतो ग्राह्यं दोषाल्पत्वं गुणाधिकम्
हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समन्ततः
समण्डपां चतुर्दिक्षु सोपानैरतिशोभिताम्
विचित्रितां चित्रकुंभैर्विविधैस्तोरणाङ्कुरैः
विप्राशीर्वचनैः पुण्यस्रीभिर्दिव्यैर्मनोरमाम्
एवं विधां समारोहेन्मिथुनं स्वाग्निवेदिकाम्
राशीशयोनिर्वर्णाख्यऋतवः पुत्रपौत्रदाः
उत्तमं मध्यमं भिन्नं राश्यैकत्वं ययोस्तयोः
स्त्रीधिष्ण्यादाद्यनवके स्त्रीदूरमतिनिन्दितम्
तिस्रः पूर्वोत्तरा धातृयाम्यमाहेशतारकाः
हर्यादित्यार्कवाय्वन्त्यमित्राश्वीज्येन्दुतारकाः
वसुवारीशमूलाहितारकाभिर्युतास्ततः
मध्यमा देवमर्त्यानां राक्षसानां तयोर्मृतिः
नैःस्व्य द्विर्द्वादशे ऽन्येषु दंपत्योः प्रीतिरुत्तमा
द्विर्दादशे त्रिकोणे च न कदाचित्षडष्टके
आखुगोमहिषव्याघ्रकालीव्याघ्रमृगद्वयम्
सिंहगोदन्तिनो भानां योनयः स्युर्यथाश्विभात्
गोव्याघ्रमाखुमार्जारं महिषाश्चं च शात्रवम्
पुंवर्णराशेः स्त्रीराशौ सतिहीने यथाशुभम्
वह्निभादिन्दुभान्नाडीत्रिचतुःपञ्चपर्वसु
प्राजापत्यब्राह्मदैवा विवाहाश्चार्षसंयुताः
गन्धर्वासुरपैशाचराक्षसाख्यास्तु सर्वदा
गोधूलिकं तदुभयं विवाहे पुत्रपौत्रदम्
अभिजित्सर्वदेशेषु मुख्यो दोषविनाशकृत्
नाशयत्यखिलान्दोषान्पिनाकी त्रिपुरं यथा