द्विरामाः स्वाग्नंयः शून्यदस्राः कुञ्जरभूमयः
शून्यचन्द्रा वेदचन्द्रा षडृक्षा वेदबाहवः
तर्कचन्द्रा वेदपक्षाः खरामाश्चाश्विभात्क्रमात्
विवाहादिषु कार्येषु विषनाडीं विवर्जयेत्
विवाहादिषु ते वर्ज्या अपिलक्षगुणैर्युताः
अपि सर्वगुणोपेतास्ते वर्ज्याः सर्वमङ्गले
अपिशुक्रेज्यसंयुक्तं विषसंयुक्तदुग्धवत्
यावच्च शशिना भुक्त्वा मुक्तभं दग्धकाष्टवत्
अखिलर्क्षं पञ्चगव्यं सुराबिन्दुयुतं तथा
क्रूरविद्धं युतं धिष्ण्यं निखिलं नैव मङ्गलम्
एते नवांशाः शुभदा वृषभस्यांशकाः खलु
अन्ये नवांशा न ग्राह्या यतस्ते कुनवांशकाः
यस्मिन्दिने महापातस्तद्दिनं वर्जयेच्छुभे
अनुक्ताः स्वल्पदोषाः स्युर्विद्युन्नीहारवृष्टयः
लत्तोपग्रहपाताख्या मासदग्धाह्वया तिथिः
एवमाद्यास्ततस्तेषां व्यवस्था क्रियते ऽधुना
दोषाय मङ्गले नूनमदोषायैव कालतः
एको ऽपि दोषनिचयं हरत्येव न संशयः
द्वितीये शंभुकोणे ऽग्निधिष्ण्यं चक्रे प्रविन्यसेत्
पुरतः पृष्टतोर्ऽकाद्या दिनर्क्षं लत्तयन्ति यत्
सूर्यभात्सार्प्पपित्र्यान्त्यत्वाष्ट्रमित्रोडुविष्णुभम्
सौराष्ट्रे साल्वदेशे तु लत्तितं भं विवर्जयेत्
बाह्लिके कुरुदेशे चान्यस्मिन्देशे न दूषणम्
मध्यदेशे विवर्ज्यानि न दृष्टानीतरेषु च
गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः
अपि धातुरतो ग्राह्यं दोषाल्पत्वं गुणाधिकम्
हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्रां समन्ततः
समण्डपां चतुर्दिक्षु सोपानैरतिशोभिताम्
विचित्रितां चित्रकुंभैर्विविधैस्तोरणाङ्कुरैः
विप्राशीर्वचनैः पुण्यस्रीभिर्दिव्यैर्मनोरमाम्