उच्चगे शुभसंयुक्ते तल्लग्नं सर्वदा त्यजेत्
शुभत्रययुतं लग्नं न त्यजेत्तुङ्गगो यदि
गण्डान्तं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु
गण्डातंमन्तरालं स्याद्धटिकार्द्धं मृतिप्रदम्
तदग्निमेष्वाद्यपादा भानां गण्डातसंज्ञकाः
लग्नाभिमुखयोः पापग्रहयोरृजुवक्रयोः
कर्तरीयोगदुष्टं यल्लग्नं तत्परिवर्जयेत्
षडष्टरिष्फगे चन्द्रे लग्नदोषः स्वसंज्ञकः
उच्चगे नीचगे वापि मित्रभे शत्रुराशिगे
शशाङ्के ग्रहसंयुक्ते दोषः संग्रहसंज्ञकः
सूर्येण संयुते चन्द्रे दारिद्यं भवति स्फुटम्
दौर्भाग्यं गुरुणा युक्ते सापत्यं भार्गवेण तु
केतुना संयुते चन्द्रे नित्यं कष्टं दरिद्रता
शुभग्रहयुते चन्द्रे स्वोच्चस्थे मित्रराशिगे
स्वोच्चगो वा स्वर्क्षगो वा मित्र क्षेत्रगतोपि वा
दंपत्योरष्टमं लग्नमष्टमो राशिरेव च
स राशिः शुभसंयुक्तो लग्नं वा शुभसंयुतम्
दंपत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः
जन्मराश्युदयश्चैव जन्मलग्नोदयः शुभः
खमार्गणा वेदपक्षाः खरामा वेदमार्गणाः
द्विरामाः स्वाग्नंयः शून्यदस्राः कुञ्जरभूमयः
शून्यचन्द्रा वेदचन्द्रा षडृक्षा वेदबाहवः
तर्कचन्द्रा वेदपक्षाः खरामाश्चाश्विभात्क्रमात्
विवाहादिषु कार्येषु विषनाडीं विवर्जयेत्
विवाहादिषु ते वर्ज्या अपिलक्षगुणैर्युताः
अपि सर्वगुणोपेतास्ते वर्ज्याः सर्वमङ्गले
अपिशुक्रेज्यसंयुक्तं विषसंयुक्तदुग्धवत्
यावच्च शशिना भुक्त्वा मुक्तभं दग्धकाष्टवत्
अखिलर्क्षं पञ्चगव्यं सुराबिन्दुयुतं तथा
क्रूरविद्धं युतं धिष्ण्यं निखिलं नैव मङ्गलम्