व्यतीपातं वैधृतिं च संपूर्णं परिघार्द्धकम्
समूलभैरविद्धैस्तैः स्त्रीकरग्रह इष्यते
चेत्पूजा यत्नतः कार्या दुर्बल ग्रहयोस्तयोः
यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजम्
तिथिरेकगुणा वारो द्विगुणस्त्रिगुणं च भम्
ततो मनहूर्तो बलवांस्ततो लग्नं बलाधिकम्
ततो नवांशो बलवान्द्वादशांशो बली ततः
शुभेक्षितयुताः शस्ता उद्वाहे ऽखिलराशयः
इष्टास्तच्छुभदं लग्नं चत्वारो ऽपि बलान्विताः
एकविंशतिदोषाणां नामरूपफलानि च
पञ्चाङ्गशुद्धिराहित्यं दोषस्त्वाद्यः प्रकीर्तितः
तृतीयः पापषड्वर्गो भृगुः षष्टः कुजो ऽष्टमः
दंपत्योरष्टमं लग्नं राशिर्विषघटी तथा
ग्रहणोत्पातभं क्रूरविद्धर्क्षं क्रूरसंयुतम्
तिथिवारर्क्षयोगानां करणस्य च मेलनम्
यस्मिन्पञ्चाङ्गदोषो ऽस्ति तस्मिंल्लग्ने निरर्थकम्
लग्नलग्नांशकौ स्वस्वपतिना वीक्षितौ युतौ
वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ
त्याज्याः सूर्यस्य संक्रान्तेः पूर्वतः परतस्तथा
षड्वर्गः शुभदः श्रेष्ठो विवाहसथापनादिषु
उच्चगे शुभसंयुक्ते तल्लग्नं सर्वदा त्यजेत्
शुभत्रययुतं लग्नं न त्यजेत्तुङ्गगो यदि
गण्डान्तं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु
गण्डातंमन्तरालं स्याद्धटिकार्द्धं मृतिप्रदम्
तदग्निमेष्वाद्यपादा भानां गण्डातसंज्ञकाः
लग्नाभिमुखयोः पापग्रहयोरृजुवक्रयोः
कर्तरीयोगदुष्टं यल्लग्नं तत्परिवर्जयेत्
षडष्टरिष्फगे चन्द्रे लग्नदोषः स्वसंज्ञकः
उच्चगे नीचगे वापि मित्रभे शत्रुराशिगे
शशाङ्के ग्रहसंयुक्ते दोषः संग्रहसंज्ञकः