पापदृष्टो ऽथ वा रन्ध्रे न संबन्धो भवेत्तदा
दंपत्योरशुभैरेतैरशुभं सर्वतो भवेत्
विवाहभस्योदये वा कन्यावरणमन्वयैः
शुक्लांबरैर्गीतवाद्यैंर्विघ्नाशीर्वचनैः सह
तदा कुर्यात्पिता तस्याः प्रदानं प्रीतिपूर्वकम्
वराय च रूपवतीं कन्यां दद्याद्यवीयसीम्
त्रैलोक्यसुन्दरीं दिव्यगन्धमाल्यांबरावृताम्
अनर्घमणिमालाभिर्भासयन्तीं दिगन्तरान्
एवंविधां कुमारीं तां पूजान्ते प्रार्थयेदिति
विवाहे भाग्यमारोग्यं पुत्रलाभं च देहि मे
एतत्पुंसामयुग्मे ऽब्दे व्यत्ययेनाशनं तयोः
मध्यमा कार्तिको मार्गशीर्षो वै निन्दिताः परे
विवाहो देवतानां च प्रतिष्टां चोपनायनम्
न गुरौ सिंहराशिस्थे सिंहांशकगतेपि वा
बुद्धः पञ्चदिनं पक्षं गुरुः पक्षं च सर्वतः
उत्सवे वासुदेवस्य दिवसे नान्यमङ्गलम्
आद्य गर्भसुतस्याथ दुहितुर्वा करग्रहः
ज्येष्टमासे तयोरेकज्येष्ठे श्रेष्ठश्च नान्यथा
नाखिले त्रिदिनं नेष्टं त्रिद्युस्पृक् च क्षयं तथा
संध्यायां त्रिदिनं तद्वन्निशीथे सप्त एव च
व्यतीपातं वैधृतिं च संपूर्णं परिघार्द्धकम्
समूलभैरविद्धैस्तैः स्त्रीकरग्रह इष्यते
चेत्पूजा यत्नतः कार्या दुर्बल ग्रहयोस्तयोः
यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजम्
तिथिरेकगुणा वारो द्विगुणस्त्रिगुणं च भम्
ततो मनहूर्तो बलवांस्ततो लग्नं बलाधिकम्
ततो नवांशो बलवान्द्वादशांशो बली ततः
शुभेक्षितयुताः शस्ता उद्वाहे ऽखिलराशयः
इष्टास्तच्छुभदं लग्नं चत्वारो ऽपि बलान्विताः
एकविंशतिदोषाणां नामरूपफलानि च