तच्छेदखण्डान्यायाः स्युर्ध्वजाये रिपुनाशनम्
धनलाभो वृषे ऽत्यन्तं दुःखी भवति गर्दभे
खड्गपुत्रिकयोर्मानं गणयेत्स्वाङ्गुलेन तु
शेषाणामगुलीनां च फलानि स्युर्यथाक्रमम्
अर्थहानिश्चार्थवृद्धिः प्रीति सिद्धिजयः स्तुतिः
सिंहेगजे मध्यभागे त्वन्तभागे श्वकाकयोः
अथोत्तरायणे शुक्रजीवयोर्द्दश्यमानयोः
चित्रोत्तरादितीज्यान्त्यहरिमित्रविधातृषु
प्रतिपत्पर्वरिक्ता मा चाष्टमी च दिनत्रयम्
सर्वाश्रमाणां विप्रेन्द्र ह्युत्तमो ऽयं गृहाश्रमः
तस्याः सच्छीलर्ला धस्तु सुलग्नवशतः खलु
पुण्ये ऽह्निलक्षणोपेतं सुखासीनं सुचेतसम्
तांबूलफलपुष्पाद्यैः पूर्णाञ्जलिरुपागतः
दंपत्योर्मरण वाच्य वर्षाणामष्टकात्पुरा
विज्ञेयं भर्तृमरणमष्टवर्षान्त्तरे बुधैःझ
मृतपुत्राथ वा कन्या कुलटा वा न संशयः
लग्नात्करोति संबन्धं दंपत्योर्गुरुवीक्षितः
वीक्षिताः पृच्छतां नॄणां कन्यालाभो भवेत्तदा
वीक्षितं चन्द्रशुक्राभ्यां कन्यालाभो भवेत्तदा
पृच्छकस्य भवेल्लग्नं पुङ्ग्रहैरवलोकितम्
पापदृष्टो ऽथ वा रन्ध्रे न संबन्धो भवेत्तदा
दंपत्योरशुभैरेतैरशुभं सर्वतो भवेत्
विवाहभस्योदये वा कन्यावरणमन्वयैः
शुक्लांबरैर्गीतवाद्यैंर्विघ्नाशीर्वचनैः सह
तदा कुर्यात्पिता तस्याः प्रदानं प्रीतिपूर्वकम्
वराय च रूपवतीं कन्यां दद्याद्यवीयसीम्
त्रैलोक्यसुन्दरीं दिव्यगन्धमाल्यांबरावृताम्
अनर्घमणिमालाभिर्भासयन्तीं दिगन्तरान्
एवंविधां कुमारीं तां पूजान्ते प्रार्थयेदिति
विवाहे भाग्यमारोग्यं पुत्रलाभं च देहि मे