त्रयोदशी च दशमी सप्तमी व्रतबन्धने
कृथष्णे द्वित्रीषुसंख्याश्च तिथ्यो ऽन्या ह्यतिनिन्दिताः
विष्णुत्रयांश्विमित्राब्जयोनिभान्युपनायने
अष्टादशं समुदयं त्रयोविंशं विनाशनम्
आचार्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः
त्रिधा विभज्य दिवसं तत्रादौ कर्म दैविकम्
स्वनीचगे तदंशे वा स्वारिभे वा तदंशके
स्वाधिशत्रुगृहस्थे वा तदंशस्थे ऽथ वा व्रती
स्वोच्चसंस्थे तदंशे वा स्वराशौ राशिगे गणे
अतीव धनवांश्चैव वेदवेदाङ्गपारगः
व्रती विशुद्धे निधने वेदशास्त्रविशारदः
गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः
शआखाधिपतिलग्नं च दुर्लभं त्रितयं व्रते
पापांशगे वा दरिद्रो नित्यदुःखितः
तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान्
लग्ने तु निधने सौम्यैः संयुते वा निरीक्षिते
स्थानादिबलसंपूर्णैश्चतुर्भिर्वा शुभान्वितैः
राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः
न कदाचित्कर्कटांशशुभेक्षितयुतो ऽपि वा
एवंविधे लग्नगते नवांशे व्रतमीरितम्
शुभैः षष्टाष्टलग्नान्त्यवर्जितेन हिमांशुना
न करोति शिशुं निःस्वं सर्वतः क्षयरोगिणम्
पञ्चदोषोनितं लग्नं शुभदं चोपनायने
अनध्याये विष्टिषष्ट्योर्न तु सस्कारमर्हति
चतुर्थी वा शुभाः प्रोक्ता अष्टावेते गलग्रहाः
विवाहोक्तेषु मासेषु शुक्लपक्षे ऽप्यनस्तगे
मैञ्जीबन्धोक्ततिथिषु कुजवर्जितवासरे
शुद्धे ऽष्टमे विधौ लग्ने षष्टाष्टान्त्यविवर्जिते
क्षुरिकाबन्धनं कार्यमर्चयित्वामरान्पितॄन्
ततः सुलग्ने बध्नीयात्कट्यां लक्षणसंयुताम्