सीमन्तिनीं वा तद्गर्भं बली हॄन्ति न संशयः
जातकर्म प्रकर्तव्यं पितृपूजनपूर्वकम्
नामपूर्वं प्रशस्तं स्यान्मङ्गलैः सुसमीक्षितैः
अनस्तगे भृगावीज्ये तत्कार्ये चोत्तरायणे
चन्द्राताराबलोपेते दिवसे च शिशोः पितुः
षष्टे मास्यष्टमे वापि पुंसां स्त्रीणां तु पञ्चमे
रिक्तां दिनक्षयं नन्दां द्वादशीमष्टमीमथ
चरस्थिरमृदुक्षिप्रनक्षत्रे शुभनैधने
पूर्वार्द्धे सौम्यखेटेन संयुक्ते वीक्षितेपि वा
व्ययारिनिधनस्थे च चन्द्रे ऽन्नप्राशनं शुभम्
बालानां जन्मतश्चौलं स्वगृह्योक्तविधानतः
अपर्वरिक्तातिथिषु शुक्रेज्यज्ञेन्दुवासरे
चौलकर्मणि हस्तक्षार्र्त्रीणित्रीणि च विष्णुभात्
शुभदं जन्मनक्षत्रमशुभं त्वन्यकर्मणि
जन्माष्टमे न शीतांशौ षष्टाष्टान्त्यविवर्जिते
अभ्यक्ते सन्ध्ययोर्नारे निशि भुक्त्वा न वाहवे
क्षौरकर्म महीपानां पञ्चमेपञ्चमे ऽहनि
नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणें
कर्तव्यं मङ्गलेष्वादौ मङ्गलाय क्षुरार्पणम्
तृतीये बीजनक्षत्रे शुभवारे शुभोदये
आशिषो वाचनं कार्यं पुण्यं पुण्याङ्गनादिभिः
तत्र मृदततस्तीक्ष्णा गृहीत्वा पुनरागतः
अनेकबीजसंयुक्तं तोयं पुष्पाभिशोभितम्
राज्ञा मेकादशे मैञ्जीबन्धनं द्वादशे विशाम्
उपवीती यतः श्रीमान्कार्यं तत्रोपनायनम्
यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम्
वेदानामधिपा जीवशुक्रभौमबुधाः क्रमात्
मुख्यं साधारणं तेषां तपोमासादिपञ्चसु
विधिज्ञश्चार्थवांश्चैत्रे वेदवेदाङ्गपारगः
उपनीतो बलाढ्यश्च ज्येष्ठे विधिविदां वरः