अन्ते तुच्छफले लग्ने सर्वस्मिन्नेवमेव हि
कल्प्यामदिन्दौ बलिनि सप्तमे बलिनो ग्रहाः
आधारभूतेनाधेयं धीयते परिधिष्टिनम्
अशुभश्चेदशुभदा वर्जयित्वा धनाधिपम्
लग्नोद्भवं फलं धत्ते धनातीतो द्वितीयकम्
लग्नं सर्वगुणोपेतं लभ्यते ऽल्पैर्दिनैर्नो
दोषाद्दुष्टो हि कालस्तमपि मार्ष्टुं पितामहः
अमारिक्ताष्टमीषष्टीद्वादशीप्रतिपत्स्वपि
संध्यासूपप्लवे विष्ट्यामशुभं प्रथमार्त्तवम्
पतिव्रता केशयुक्ता सूर्यवारादिषु क्रमात्
तारका न हिता मासा मधूर्जशुचिपौषकाः
कुलटा पापभोगेषु निन्द्यर्क्षे निन्द्यवासरे
सुवर्णगोतिलान्दद्यात्सर्वदोषापनुत्तये
ओजराश्यंशगे चन्द्रे लग्ने पुङ्ग्रहवीक्षिते
पुत्रार्थी पुरुषशस्त्यक्त्वा पौष्णमूलाहिपित्र्यभम्
मासे पुंसवनं कार्यं सीमन्तं च यथा तथा
बलोपपन्ने दंपत्योश्चन्द्रताराबलान्विते
तीक्ष्णमिश्रार्कवर्ज्येषु पुंभांशेरात्रिनायके
शुभग्रहयुते दृष्टे पापदृष्टिविवर्जिते
पापेषु सत्सु चन्द्रेत्यनिधनाद्यरिवर्जिते
सीमन्तिनीं वा तद्गर्भं बली हॄन्ति न संशयः
जातकर्म प्रकर्तव्यं पितृपूजनपूर्वकम्
नामपूर्वं प्रशस्तं स्यान्मङ्गलैः सुसमीक्षितैः
अनस्तगे भृगावीज्ये तत्कार्ये चोत्तरायणे
चन्द्राताराबलोपेते दिवसे च शिशोः पितुः
षष्टे मास्यष्टमे वापि पुंसां स्त्रीणां तु पञ्चमे
रिक्तां दिनक्षयं नन्दां द्वादशीमष्टमीमथ
चरस्थिरमृदुक्षिप्रनक्षत्रे शुभनैधने
पूर्वार्द्धे सौम्यखेटेन संयुक्ते वीक्षितेपि वा
व्ययारिनिधनस्थे च चन्द्रे ऽन्नप्राशनं शुभम्