मित्रं परममित्रं च जन्मभात्तु पुनः पुन
शाकं गुडं च लवणं सतिलं काञ्चनं क्रमात्
चन्द्रस्य द्वादशावस्था राशौराशौ यथाक्रमम्
वेदघ्नमिषुवेदान्त्यमवस्था भानुभागतः
शिनिभुक्तिर्ज्वरः कंपः सुस्थितिर्नामसन्निभाःऋ
धात्वाकरं युद्धकर्म मेषलग्ने प्रसिद्ध्यति
कृषिवाणिज्यपश्वादिदुष्टलग्ने प्रसिद्ध्यति
गजोद्वाहाभिषेकाद्यं कर्त्तव्यं मिथुनोदये
पौष्टिकं लिपिलेखादि कर्तव्यं कर्कटोदये
साहसाहवभूपाद्यं सिंहलग्ने प्रसिद्ध्यति
कन्या लग्ने विधेयं च पौष्टिकाखिलमङ्गलम्
तुलायामखिलं कर्म तुलाभाराश्रिते च यत्
चौर्यकर्मस्थिरारंभाः कर्तव्या वृश्चिकोदये
चरस्थिरविमिश्रं च कर्तव्यं कार्मुकोदये
प्रस्थानं पशुदासादि कर्तव्यं मकरोदये
जलपात्रास्त्राशस्त्रादि कर्तव्यं कलशोदये
भूषणं जलपात्राश्वकर्म मीनोदये शुभम्
क्रूरग्रहेक्षितेषूग्रसंयुतेषूग्रमेव हि
शुभर्क्षत्वाशुभासत्य इतरा पापराशयः
फलं ताभ्यां विहीनो ऽसौ स्वभावमुपसर्पति
अन्ते तुच्छफले लग्ने सर्वस्मिन्नेवमेव हि
कल्प्यामदिन्दौ बलिनि सप्तमे बलिनो ग्रहाः
आधारभूतेनाधेयं धीयते परिधिष्टिनम्
अशुभश्चेदशुभदा वर्जयित्वा धनाधिपम्
लग्नोद्भवं फलं धत्ते धनातीतो द्वितीयकम्
लग्नं सर्वगुणोपेतं लभ्यते ऽल्पैर्दिनैर्नो
दोषाद्दुष्टो हि कालस्तमपि मार्ष्टुं पितामहः
अमारिक्ताष्टमीषष्टीद्वादशीप्रतिपत्स्वपि
संध्यासूपप्लवे विष्ट्यामशुभं प्रथमार्त्तवम्
पतिव्रता केशयुक्ता सूर्यवारादिषु क्रमात्