विध्यतेन्त्याष्टरवांबुत्रिगतैः रवैटैर्मुनीश्वरा
चेन्न विद्धो ऽष्टसप्ताङ्गम् रवाङ्काद्यायारिरामगैः
तस्माद्वेधं विचार्याथ कथनीयं शुभाशुभम्
सौम्येक्षितो ऽनिष्टफलः शुभदः पापवीक्षितः
नीचराशिगतः स्वस्य शत्रोः क्षेत्रगतो ऽपि वा
ग्रहेषु विषमस्थेषु शान्तिं कुर्यात्प्रयत्नतः
मणिर्मुक्ताफलं विद्रुमाख्यं मरक तं तथा
दूर्य्यं भास्करादीनां तुष्ट्य धार्यं यथाक्रमम्
स पक्षस्तस्य शुभदः कृष्णपक्षोन्यथाशुभः
रिःफरन्ध्रांबुसंस्थैश्चैन्न विद्धो गगने चरैः
मित्रं परममित्रं च जन्मभात्तु पुनः पुन
शाकं गुडं च लवणं सतिलं काञ्चनं क्रमात्
चन्द्रस्य द्वादशावस्था राशौराशौ यथाक्रमम्
वेदघ्नमिषुवेदान्त्यमवस्था भानुभागतः
शिनिभुक्तिर्ज्वरः कंपः सुस्थितिर्नामसन्निभाःऋ
धात्वाकरं युद्धकर्म मेषलग्ने प्रसिद्ध्यति
कृषिवाणिज्यपश्वादिदुष्टलग्ने प्रसिद्ध्यति
गजोद्वाहाभिषेकाद्यं कर्त्तव्यं मिथुनोदये
पौष्टिकं लिपिलेखादि कर्तव्यं कर्कटोदये
साहसाहवभूपाद्यं सिंहलग्ने प्रसिद्ध्यति
कन्या लग्ने विधेयं च पौष्टिकाखिलमङ्गलम्
तुलायामखिलं कर्म तुलाभाराश्रिते च यत्
चौर्यकर्मस्थिरारंभाः कर्तव्या वृश्चिकोदये
चरस्थिरविमिश्रं च कर्तव्यं कार्मुकोदये
प्रस्थानं पशुदासादि कर्तव्यं मकरोदये
जलपात्रास्त्राशस्त्रादि कर्तव्यं कलशोदये
भूषणं जलपात्राश्वकर्म मीनोदये शुभम्
क्रूरग्रहेक्षितेषूग्रसंयुतेषूग्रमेव हि
शुभर्क्षत्वाशुभासत्य इतरा पापराशयः
फलं ताभ्यां विहीनो ऽसौ स्वभावमुपसर्पति