एकादश्यामिन्दुवारो द्वादश्यामर्कवासरः
नवमी पञ्चमी भौमे दग्धयोगाः प्रकीर्तिताः
बुधे श्रविष्टार्यमभे गुरौ ज्येष्टा भृगोर्दिने
विशाखादिचतुर्वर्गमर्कमर्कवारादिषु क्रमात्
तिथिवारोद्भवा नेष्टा योगा वारर्क्षसंभवाः
घोराष्टाक्षीमहोदर्यो मन्दा मन्दाकिनी तथा
शूद्रतस्करवैश्यक्ष्मादेवभूपगवां क्रमात्
पूर्वाह्ने नृपतीन्हन्ति विप्रान्मध्यन्दिने विशः
निशि रात्रिचरान्नाट्यकारानपररात्रिके
दिवा चेन्मेषसंक्रान्तिरनर्थकलहप्रदा
अश्वश्पवाजवृषाः पादायुधाः करणवाहनाः
भुशुडी च गदाखड्गौ दण्ड इषअवासतोमरौ
अन्नं च पायसं भैक्ष्यं सयूषं च पयो दधि
ववोवीवणिजेविश्वां बालवे गोचरस्थितौ
चतुः पादे तिलेनागे सुप्तः क्रान्तिं करोति हि
आयुधं वाहनाहारौ यज्जातीयं जनस्य च
अन्धकं मन्दसंज्ञं च मध्यसंज्ञं सुलोचनम्
स्थिरभेष्वर्कसंक्रान्तिर्ज्ञेया विष्णुपदाह्वया
तुलाघटाजयोर्ज्ञेयो विषुवत्सूर्यसंक्रमः
मेध्या विषुवति प्रोक्ताः पुण्यनाड्यस्तु षोडश
प्राक्पश्चाद्याम्यसौम्ये चेत्पुण्यं पूर्वांपरे ऽहनि
नरः प्राप्नोति तद्राशौ शीतांशोः साध्वसाधु च
रवेरयनसंक्रान्तिस्तदा तद्राशिसंक्रमात्
व्रतोद्वाहादिकेष्वेव द्वयं नेष्टं तु तत्क्रमात्
तत्र हेम विनिक्षिप्य दद्याद्दोषापवृत्तयेः
बली संक्रममाणस्तु तद्वत्खेटा बलाधिकाः
नवपञ्चांबुरिष्फस्थैर्व्यर्किभिर्विध्यते न चेत्
यथेष्टान्त्यांबुधर्मस्थैविबुधैर्विध्यते न चेत्
व्ययेष्वङ्कस्थितैः सौरिसौम्यसूर्यैः शुभौषधात्
धीत्र्यकादिगजान्तस्थैः शशाङ्करहितैः शुभैः