ईशाजपादाहिर्बुध्न्यपूषाश्वियमवह्नयः
अह्नः पञ्चदशो भागस्तथा रात्रिप्रमाणतः
अर्यमा राक्षसब्राह्नौ पित्र्याग्नेयौ तथाभिजित्
वारेषु वर्जनीयास्ते मुहूर्ताः शुभकर्मसु
तद्दैवत्ये मुहूर्ते ऽपि कार्यं यात्रादिकं सदा
शूलो ऽष्टमे च दशमे शानिरष्टादशे ततः
निर्घातपातसंज्ञश्च ज्ञेयः स नवपञ्चमे
विज्ञेया एकविंशर्क्षादारभ्य च यथाक्रमम्
सूर्यभात्सर्वपित्र्यर्क्षं त्वाष्ट्रमित्रप्तभेषु च
धिष्ण्ये तावति सत्यत्र दुष्टयोगः पतत्यसौ
त्रयोदश स्युर्मिलनसंख्यया तिथिवारयोः
सप्तम्यामर्कवारश्चेत्प्रतिपत्सौम्यबासरे
आनन्दः कालदण्डाख्यो धूम्रधातृसुधाकराः
मित्रमानसपद्माख्यलुम्बकोत्पातमृत्यवः
राक्षसाख्यवरस्थैर्यवर्द्धमानाः क्रमादमी
रविवारे क्रमादेव दस्रभार्दिदुभाद्विधौ
वैश्वदेवाद्भगुसुते वारुणाद्भास्करात्मजे
सौम्ये मित्रभमाचार्यं तिष्यः पौष्णं भृगोः सुते
आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः
नन्दा तिथिः शुक्रवारे सौम्ये भद्रा कुजे जया
एकादश्यामिन्दुवारो द्वादश्यामर्कवासरः
नवमी पञ्चमी भौमे दग्धयोगाः प्रकीर्तिताः
बुधे श्रविष्टार्यमभे गुरौ ज्येष्टा भृगोर्दिने
विशाखादिचतुर्वर्गमर्कमर्कवारादिषु क्रमात्
तिथिवारोद्भवा नेष्टा योगा वारर्क्षसंभवाः
घोराष्टाक्षीमहोदर्यो मन्दा मन्दाकिनी तथा
शूद्रतस्करवैश्यक्ष्मादेवभूपगवां क्रमात्
पूर्वाह्ने नृपतीन्हन्ति विप्रान्मध्यन्दिने विशः
निशि रात्रिचरान्नाट्यकारानपररात्रिके
दिवा चेन्मेषसंक्रान्तिरनर्थकलहप्रदा