कपिलं ध्याननिरतं वाजिनं च तदन्तिके
हन्तुमुद्युक्तमनसो विद्रवन्तः समासदन्
गुह्यतां गृह्यतामाशु इत्यूचुस्ते परस्परम्
सन्ति चारो खला लोके कुर्वन्त्याडम्बरं महत्
समस्तेन्द्रियसंदोहं नियम्यात्मानमात्मनि
आस्थितः कपिलस्तेषां तत्कर्म ज्ञातवान्नहि
पद्भिः संताडयामासुर्बुहूं च जगृहुः परे
उवाच भावगम्भीरं लोकोपद्रवकारिणः
अहॄङ्कारविमूढानां विवेको नैव जायते
तदेव मानवा भुक्त्वा ज्वलन्तीति किमद्भुतम्
महीरुहां श्चानुतटे पातयन्ति नदीरयाः
तत्राश्रीर्वृद्धता नित्यं मुर्खत्वं चापि जायते
नामसाम्यादहो चित्रं धत्तूरो ऽपिमदप्रदः
यथा सखाग्नेः पवनः पन्नगस्य यथा विषम्
यदि पश्यत्यामहितं स पश्यति न संशयः
स वह्निः सागरान्सर्वान्भस्मसादकरोत्क्षणात्
अकालप्रलयं मत्वा चुक्रुशुः शोकलालसाः
सागरं विविशुः शीघ्रं सतां कोपो हि दुःसहः
देवदूत उवाचेदं सर्वं वृत्तं हि यक्षते
दैवेन शिक्षिता दुष्टा इत्युवाचाति हर्षितः
अधर्मं कुरुते यस्तु स एव रिपुरिष्यते
तं रिपुं परमं विद्याच्छास्त्राणामेष निर्णयः
दुर्वृत्तनिधनं यस्मात्सतामुत्साह कारणम्
पौत्रं तमंशुमन्तं हि पुत्रत्वे कतवान्प्रभुः
युयोज सारविद्भूयो ह्यश्चानयनकर्मणि
कपिलं तेजसांराशिं साष्टाङ्गंप्रणनामहा
उवाच शान्तमनसं देवदेवं सनातनम्
परोपकारनिरताः क्षमासारा हि साधवः
नहि संहरतेज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः
ददाति परमां तुष्टिं भक्ष्यमाणो ऽमरैः शशी