संभूतो ऽदितिभाद्वंशः पिप्पलः पुष्यसंभवः
पालाशो भाग्यभाज्जातः अक्षश्चार्यमसंभवः
स्वात्युक्षजोर्ऽजुनो वृक्षो द्विदैवत्याद्विकङ्कतः
सर्ज्जवृक्षो मूलभाञ्च वञ्जुलो वारिधिष्ण्यजः
वसुधिष्ण्याच्छमीवृक्षः कदंबो वारुणर्क्षजः
मधुवृक्षः पौष्णधिष्ण्याद्धिष्ण्यवृक्षाः प्रकीर्तिताः
योगेशा यमविश्वेन्दुधातृजीवनिशाकराः
गणेशरुद्रधनदत्वष्ट्टमित्रषडाननाः
वैधृतिश्च व्यतीपातो महापातावुभौ सदा
विष्कंभवज्रयोस्तिस्रः षड्वा गण्डातिगण्डयाईः
अदितीन्दुमधाह्यश्वमूलमैत्रेज्यभानि च
लिखेदूर्ध्वगतामेकां तिर्यग्रेखास्त्रयोदश
भाज्यैकरेरवागतयोः सूर्याचन्द्रमसोर्मिथः
विनाडीभिर्द्वादशभी रहितं घटिकाद्वयम्
इन्द्रः प्रजापतिर्मित्रस्त्वष्टाभूहरितिप्रिया
बवादिवणिजान्तानि शुभानि करणानि षट्
मुखे पञ्चगले चैका वक्षस्येकादश स्मृतः
कार्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता
स्थिराणि मध्यमान्येषां मध्यनागचतुष्पदौ
विश्वेविधातृब्रह्मेन्द्ररुद्राग्निवसुतोयपाः
ईशाजपादाहिर्बुध्न्यपूषाश्वियमवह्नयः
अह्नः पञ्चदशो भागस्तथा रात्रिप्रमाणतः
अर्यमा राक्षसब्राह्नौ पित्र्याग्नेयौ तथाभिजित्
वारेषु वर्जनीयास्ते मुहूर्ताः शुभकर्मसु
तद्दैवत्ये मुहूर्ते ऽपि कार्यं यात्रादिकं सदा
शूलो ऽष्टमे च दशमे शानिरष्टादशे ततः
निर्घातपातसंज्ञश्च ज्ञेयः स नवपञ्चमे
विज्ञेया एकविंशर्क्षादारभ्य च यथाक्रमम्
सूर्यभात्सर्वपित्र्यर्क्षं त्वाष्ट्रमित्रप्तभेषु च
धिष्ण्ये तावति सत्यत्र दुष्टयोगः पतत्यसौ