धातृज्येष्टादितिस्वातीपौष्णार्कहरिदेवताः
शेषाः कुलाकुलास्तारास्तासां मध्ये कुलोडुषु
भेषूपकुलसंज्ञेषु जयमाप्नोति निश्चितम्
अर्कार्किभौमवारे चेद्भद्राया विषमाङ्घ्रिभम्
तद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा
क्रूरविद्धो युतो वापिपुष्यो यदि बलान्वितः
रामाग्निऋतुबाणाग्निभूवेदाग्निशरेषु च
वेदनेत्राब्ध्यग्निशतबाहुनेत्ररदाः क्रमात्
या दृश्यन्ते दीप्तताराः स्वगणे योगतारकाः
उडुंबरश्चाग्निधिष्ण्ये रोहिण्यां जंबुकस्तरुः
संभूतो ऽदितिभाद्वंशः पिप्पलः पुष्यसंभवः
पालाशो भाग्यभाज्जातः अक्षश्चार्यमसंभवः
स्वात्युक्षजोर्ऽजुनो वृक्षो द्विदैवत्याद्विकङ्कतः
सर्ज्जवृक्षो मूलभाञ्च वञ्जुलो वारिधिष्ण्यजः
वसुधिष्ण्याच्छमीवृक्षः कदंबो वारुणर्क्षजः
मधुवृक्षः पौष्णधिष्ण्याद्धिष्ण्यवृक्षाः प्रकीर्तिताः
योगेशा यमविश्वेन्दुधातृजीवनिशाकराः
गणेशरुद्रधनदत्वष्ट्टमित्रषडाननाः
वैधृतिश्च व्यतीपातो महापातावुभौ सदा
विष्कंभवज्रयोस्तिस्रः षड्वा गण्डातिगण्डयाईः
अदितीन्दुमधाह्यश्वमूलमैत्रेज्यभानि च
लिखेदूर्ध्वगतामेकां तिर्यग्रेखास्त्रयोदश
भाज्यैकरेरवागतयोः सूर्याचन्द्रमसोर्मिथः
विनाडीभिर्द्वादशभी रहितं घटिकाद्वयम्
इन्द्रः प्रजापतिर्मित्रस्त्वष्टाभूहरितिप्रिया
बवादिवणिजान्तानि शुभानि करणानि षट्
मुखे पञ्चगले चैका वक्षस्येकादश स्मृतः
कार्यहानिर्मुखे मृत्युर्गले वक्षसि निःस्वता
स्थिराणि मध्यमान्येषां मध्यनागचतुष्पदौ
विश्वेविधातृब्रह्मेन्द्ररुद्राग्निवसुतोयपाः