ऊर्द्धास्यं नवकं भानां प्रोक्तमत्र विधीयते
प्रासादतोरणारामप्राकाराद्यं च सिद्ध्यति
साधारणं द्विदैवत्यं वह्निभं च प्रकीर्तितम्
मृद्विन्दुमित्रचित्रान्त्यमुग्रं पूर्वामघात्रिकम्
चित्रादित्यंबुविष्ण्वंबान्त्याधिमित्रवसूडुषु
दस्रेन्द्वदितितिष्येषु करादित्रितये तथा
वाजिकर्माखिलं कार्यं सूर्यवारे विशेषतः
दर्शाष्टभ्यां चतुर्दश्यां पशूनां न कदाचन
हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः
अग्रे वृद्ध्यै त्रयं लक्ष्म्ये सौम्यपार्श्वे च पञ्चकम्
श्रियै पुष्ट्यै त्रयं श्रेष्ठं स्याच्चक्रे लाङ्गलाह्वये
समूलभेषु बीजोप्तिरत्युन्त्कृष्टं फलप्रदा
गले त्रयं कज्जलाय वृद्ध्यै च द्वादशोदरे
नाभौ वह्निः पञ्चकं यद्वीजोप्ताविति चिन्तयेत्
न कुर्याद्रोगमुक्तस्य स्नानमाहीं दुशुक्रयोः
पुष्यार्कपौष्णधिष्ण्येषु नृत्यारंभः प्रशस्यते
मध्ययुञ्जि द्वादशर्क्षाणीन्द्रभान्नवभानि च
जघन्यास्तोयपार्द्राहिपवनान्तकनाकपाः
तासां प्रमाणघटिकास्त्रिंशन्नवतिद्यष्टयः
अश्वग्रीन्द्वीज्यनैरृत्यत्वाष्ट्रजत्त्युत्तराभवाः
धातृज्येष्टादितिस्वातीपौष्णार्कहरिदेवताः
शेषाः कुलाकुलास्तारास्तासां मध्ये कुलोडुषु
भेषूपकुलसंज्ञेषु जयमाप्नोति निश्चितम्
अर्कार्किभौमवारे चेद्भद्राया विषमाङ्घ्रिभम्
तद्यात्तद्दोषनाशाय गोत्रयं मूल्यमेव वा
क्रूरविद्धो युतो वापिपुष्यो यदि बलान्वितः
रामाग्निऋतुबाणाग्निभूवेदाग्निशरेषु च
वेदनेत्राब्ध्यग्निशतबाहुनेत्ररदाः क्रमात्
या दृश्यन्ते दीप्तताराः स्वगणे योगतारकाः
उडुंबरश्चाग्निधिष्ण्ये रोहिण्यां जंबुकस्तरुः