तिथेः पञ्चदशो भागः क्रमात्प्रतिपदादयः
रविः स्थिरश्चरश्चन्द्रः क्रूरो वक्रोखिलो बुधः
अभ्यक्तो भानुवारे यः स नरः क्लेशवान्भवेत्
जीवे नैवं सिते हानिर्मन्दे सर्वसमृद्धयः
देशान्तरस्वचरार्द्धनाडीभिरपरे भवेत्
तत्कर्म बलहीनस्य दुःखेनापि न सिद्ध्याति
फलदास्त्वितरे क्रूरे कर्मस्वभिमतप्रदाः
दूर्वावर्णो वुधो जीवः पीतश्वेतस्तु भार्गवः
अद्रिवाणाश्च यस्तर्कपातालवसुधाधराः
त्र्येकाहयो नेत्रगोत्ररामाश्वद्ररसर्तवः
प्रहरार्द्धप्रमाणास्ते विज्ञेयाः सूर्यवासरात्
आद्यः षष्टो द्वितीयो ऽस्मत्तत्षष्ठस्तुतृतीयकः
सार्द्धनाडीद्वयेनैव दिवा रात्रौ यथाक्रमात्
नक्षत्रेशाः क्रमाद्दस्रयमवह्निपितामहाः
अर्यमार्कत्वष्टृमरुच्छक्राग्निमित्रवासवः
अजैकपादहिर्बुध्न्या पूषा चेति प्रकीर्तिताः
अधोमुखं तु नवकं भानौ तत्र विधीयते
शिल्पकर्मकलाकूपनिक्षेपोद्धरणादि यत्
तिर्यङ्मुखाख्यं नवकं भानौ तत्र विधीयते
खरगोरथनौयानलुलायहयकर्म च
ऊर्द्धास्यं नवकं भानां प्रोक्तमत्र विधीयते
प्रासादतोरणारामप्राकाराद्यं च सिद्ध्यति
साधारणं द्विदैवत्यं वह्निभं च प्रकीर्तितम्
मृद्विन्दुमित्रचित्रान्त्यमुग्रं पूर्वामघात्रिकम्
चित्रादित्यंबुविष्ण्वंबान्त्याधिमित्रवसूडुषु
दस्रेन्द्वदितितिष्येषु करादित्रितये तथा
वाजिकर्माखिलं कार्यं सूर्यवारे विशेषतः
दर्शाष्टभ्यां चतुर्दश्यां पशूनां न कदाचन
हलप्रवाहं प्रथमं विदध्यान्मूलभे वृषैः
अग्रे वृद्ध्यै त्रयं लक्ष्म्ये सौम्यपार्श्वे च पञ्चकम्