या पौर्णिमा दिवा चन्द्रमती सानुमती स्मृता
सिनीवाली चेन्दुमती कुहूर्नेन्दुमती मता
त्रेतादिर्माधवे शुक्ले तृतीया पुण्यसंज्ञिता
कल्पादिः स्यात्कृष्णपक्षे नभस्तस्य त्रयोदशी
चैत्रे भाद्रपदे चैव तृतीया शुक्लसंज्ञिता
माघे च सप्तमी शुक्ला नभस्ये त्वसिताष्टमी
आषाढे कार्तिके मासि ज्यष्टे चैत्रे च पौर्णिमा
भाद्रे कृष्णत्रयोदश्यां मघामिन्दुः करे रविः
एकस्मिन्वासरे तिस्रस्तिथयः स्यात्तिथिक्षयः
सूर्यास्तमनपर्यन्तं यस्मिन्वारे तु या तिथिः
तिथेः पञ्चदशो भागः क्रमात्प्रतिपदादयः
रविः स्थिरश्चरश्चन्द्रः क्रूरो वक्रोखिलो बुधः
अभ्यक्तो भानुवारे यः स नरः क्लेशवान्भवेत्
जीवे नैवं सिते हानिर्मन्दे सर्वसमृद्धयः
देशान्तरस्वचरार्द्धनाडीभिरपरे भवेत्
तत्कर्म बलहीनस्य दुःखेनापि न सिद्ध्याति
फलदास्त्वितरे क्रूरे कर्मस्वभिमतप्रदाः
दूर्वावर्णो वुधो जीवः पीतश्वेतस्तु भार्गवः
अद्रिवाणाश्च यस्तर्कपातालवसुधाधराः
त्र्येकाहयो नेत्रगोत्ररामाश्वद्ररसर्तवः
प्रहरार्द्धप्रमाणास्ते विज्ञेयाः सूर्यवासरात्
आद्यः षष्टो द्वितीयो ऽस्मत्तत्षष्ठस्तुतृतीयकः
सार्द्धनाडीद्वयेनैव दिवा रात्रौ यथाक्रमात्
नक्षत्रेशाः क्रमाद्दस्रयमवह्निपितामहाः
अर्यमार्कत्वष्टृमरुच्छक्राग्निमित्रवासवः
अजैकपादहिर्बुध्न्या पूषा चेति प्रकीर्तिताः
अधोमुखं तु नवकं भानौ तत्र विधीयते
शिल्पकर्मकलाकूपनिक्षेपोद्धरणादि यत्
तिर्यङ्मुखाख्यं नवकं भानौ तत्र विधीयते
खरगोरथनौयानलुलायहयकर्म च