अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च
चित्रभानुःसुभानुश्च तारणः पार्थिवो ऽव्ययः
नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ
शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ
परिभावी प्रमादी च आनन्दो राक्षसो ऽनलः
दुन्दुभीरुधिरोद्गरी रक्ताक्षः क्रोधनः क्षयः
युगं स्यात्पञ्चभिर्वर्षैर्युगान्येवं तु द्वादश
पुरन्दरो लोहितश्च त्वष्टाहिर्बुध्न्यसंज्ञकः
तथा युगस्य वर्षे शास्त्वग्निनेन्दुविधीश्वराः
तत्कालं ग्रहचारं च सम्यक् ज्ञात्वा फलं पदेत्
अहः सुराणां तद्रात्रिः कर्काद्यं दक्षिणायनम्
मधादौ मङ्गलं कर्म विधेयं चोत्तरायणे
माधादि मासौ द्वौ द्वौ च ऋतवः शिशिरादयः
वर्षा शरश्च हेमन्तः कर्काद्वै दक्षिणायने
त्रिंशद्भिश्चन्द्रभगणो मासो नाक्षत्रसंज्ञकः
नभस्य इष ऊर्जश्च सहाश्चैव सहस्यकः
यस्मिन्मासे पौर्णमासी येन धिष्णेन संयुता
तत्पक्षौ दैव पित्राख्यौ शुक्लकृष्णौ तथापरे
क्रमात्तिथीनां ब्रह्माग्नी विरिञ्चिविष्णुशैलजाः
महेन्द्रवासवौ नागदुर्गादण्डधराह्वयः
चन्द्रविश्वेदर्शसंज्ञतिथीशाः पितरः स्मृताः
त्रिरावृत्त्या क्रमाज्ज्ञेया नेष्टमध्येष्टदाः सिते
अष्टमी द्वादशी षष्टी चतुर्थी च चतुर्दशी
समुद्रमनुरन्ध्राङ्कतत्त्वसंख्यास्तु नाडिकाः
अमावास्या च नवमी हित्वा विषमसंज्ञिका
षषअट्यां तैलं तथाष्टम्यां मासं क्षौरं कलेस्तिथौ
देर्शे षष्ट्यां प्रतिपदि द्वादश्यां प्रतिपर्वसु
व्यतीपाते च संक्रान्तावेकादश्यां च पर्वसु
यः करोति दशम्यां च स्नानमामलकैर्नरः
अर्थपुत्रक्षयस्तस्य द्वितीयायां न संशयः