अनावृष्टिः सस्यहानिर्दुर्भिक्षं याम्यपर्वणि
अतिवेले पुष्पहानिर्भयं सस्यविनाशनम्
विरोधो धरणीशानामर्थवृष्टिविनाशनम्
सर्वग्रस्ताविनेन्दूतु क्षुद्व्याध्यग्निभयप्रदौ
द्विजातींश्चक्रमाद्धन्ति राहुदृष्टोरगादितः
नो शक्ता लक्षितुं देवाः किं पुनः प्राकृता जनाः
शुभाशुभान्यैः कालस्य ग्राहयामो हि लक्षणम्
उत्पातरूपाः केतूनामुदयास्तमया नृणाम्
यज्ञध्वजास्त्रभवनरक्षवृद्धिङ्गजोपमाः
नक्षत्रसंस्थिता दिव्या भौमा ये भूमिसंस्थिताः
यावन्तो दिवसान्केतुर्दृश्यते विविधात्मकः
ये दिव्याः केतवस्ते ऽपि शश्वज्जीवफलप्रदाः
क्षिप्रादस्तमयं याति दीर्घकेतु रवृष्टिकृत्
द्वित्रिचतुःशूलरूपः स च राज्यान्तकृन्मतः
केतवश्चोदिताः पूर्वापरयोर्नृपहानिदाः
हुताशनोदितास्ते ऽपि केतवः फलदाः स्मृताः
सुभिक्षक्षेमदाः श्वेतकेतवः सोमसूनवः
ब्रह्मदण्डाद्धूमकेतुः प्रजानामन्तकृन्मतः
अनिष्टदाः पङ्गुसुता विशिखाः कमकाह्वयाः
सूक्ष्माः शुक्ला बुधसुताश्चौररोगभयप्रदाः
अग्निजा विश्वरूपाख्या अग्निवर्णाः सुखप्रदाः
शुक्रजा ऋक्षसदृशाः के तवः शुभदायकाः
प्रासादवृक्षशैलेषु जातो राज्ञां विनाशकृत्
आवर्तकेतुसंध्यायां शशिरो नेष्टदायकः
चान्द्रमार्क्षं गुरोर्मानमिति मानानि वै नवः
तेषां पृथक्पृथक्कार्यं वक्ष्यते व्यवहारतः
वृष्टेर्विधानं स्त्रीगर्भः सावनेनैव गृह्यते
यात्रोद्वाहव्रतक्षौरे तिथिवर्षेशनिर्णयः
गृह्यते गुरुमानेन प्रभवाद्यब्दलक्षणम्
गुरुमध्यमचारेणषष्ट्यब्दाः प्रभावादयः