हृदये पञ्च ऋक्षाणि वामहस्ते चतुष्टयम्
चत्वारि दक्षिणे हस्ते जन्मभाद्रविजस्थितिः
आयासः श्रेष्ठयात्रा च धनलाभः क्रमात्फलम्
करोत्येव समः साम्यं शीघ्रगेषूत्क्रमात्फलम्
अमृत्युतां गतस्तत्र खेटस्तत्र खेटत्वे परिकल्पितः
विक्षेपावनतेर्वङ्गाद्गाहुर्दूरगतस्तयोः
पर्वेशास्तु तथा सत्यदेवा ख्यादितः क्रमात्
पशुसस्यद्विजातीनां वृद्धिर्ब्रह्मे तु पर्वणि
विरोधो भूभुजां दुःखमैन्द्रे सस्यविनाशनम्
नृपाणामशिवं क्षेममितरेषां च वारुणे
अनावृष्टिः सस्यहानिर्दुर्भिक्षं याम्यपर्वणि
अतिवेले पुष्पहानिर्भयं सस्यविनाशनम्
विरोधो धरणीशानामर्थवृष्टिविनाशनम्
सर्वग्रस्ताविनेन्दूतु क्षुद्व्याध्यग्निभयप्रदौ
द्विजातींश्चक्रमाद्धन्ति राहुदृष्टोरगादितः
नो शक्ता लक्षितुं देवाः किं पुनः प्राकृता जनाः
शुभाशुभान्यैः कालस्य ग्राहयामो हि लक्षणम्
उत्पातरूपाः केतूनामुदयास्तमया नृणाम्
यज्ञध्वजास्त्रभवनरक्षवृद्धिङ्गजोपमाः
नक्षत्रसंस्थिता दिव्या भौमा ये भूमिसंस्थिताः
यावन्तो दिवसान्केतुर्दृश्यते विविधात्मकः
ये दिव्याः केतवस्ते ऽपि शश्वज्जीवफलप्रदाः
क्षिप्रादस्तमयं याति दीर्घकेतु रवृष्टिकृत्
द्वित्रिचतुःशूलरूपः स च राज्यान्तकृन्मतः
केतवश्चोदिताः पूर्वापरयोर्नृपहानिदाः
हुताशनोदितास्ते ऽपि केतवः फलदाः स्मृताः
सुभिक्षक्षेमदाः श्वेतकेतवः सोमसूनवः
ब्रह्मदण्डाद्धूमकेतुः प्रजानामन्तकृन्मतः
अनिष्टदाः पङ्गुसुता विशिखाः कमकाह्वयाः
सूक्ष्माः शुक्ला बुधसुताश्चौररोगभयप्रदाः