भाग्यार्यमेज्यादितिषु संक्षिप्ता गतिरुच्यते
योमातिकातिविश्वाबुमूलमत्स्यैन्यजस्य च
इन्द्राग्निमित्रमार्तण्डभेषु पापाह्वयागतिः
यावन्त्येव दिनान्येष दृश्यस्तावत्यदृश्यगः
पञ्चदशैकादशभिर्दिवसैः शशिनन्दनः
मिश्रसक्षिप्तयोर्मध्ये फलदो ऽन्यासु वृष्टिदः
जगतां पापफलदस्त्वितरेषु शुभप्रदः
उदितश्चन्द्रजः श्रेष्ठो रजतस्फटिकोपयः
शुचिर्मध्यो नभः श्रेष्ठो भाद्रः श्रेष्ठः क्वचिन्नरः
शुभप्रदौ पौषमाधौ मध्यमौ फआल्गुनो मधुः
शुचिर्मध्यो नभः श्रेष्ठो भाद्रः श्रेष्ठः क्वचिन्नर
सौम्ये भागे चरन्भानां क्षेमारोग्यसुभिक्षकृत्
पीताग्निश्यामहरितरक्तवर्णोगिराः क्रमात्
अनावृष्टिं भूम्ननिभः करोति सुरपूजितः
संवत्सरशरीरं स्यात्कृत्तिका रोहिणी तथा
दुर्भिक्षाग्निमरुद्भीतिः शरीरं क्रूरपीडिते
हृदयेशस्य निधनं शुभं स्यात्संयुतैः शुभैः
इति द्विजातिमध्यां तु गोनृपस्त्रीसुखं महत्
महार्घमपि संपत्तिर्देशनाशो ऽतिवर्षणम्
रोगो धान्यं नभो ऽदृष्टिमघाद्यृक्षगते गुरौ
शुक्रस्य दस्त्रभाज्ज्ञेयं पर्यायैश्च त्रिभिस्त्रिभिः
मृगाञ्जदहनाख्याः स्युर्यामयान्ता वीथयो नव
धान्यार्थवृष्टिसस्यानां परिपूर्ति करोति हि
पूर्वस्यां दिशि मेघस्तु शुभदः पितृपञ्चके
विपरीते त्वनावृष्टिदृद्बुधसंयुतः
उन्दयास्तमनं याति तदा जलमयी मही
गुरुशुक्रावनावृष्टिदुर्भिक्षसमरप्रदौ
युद्धान्तिवायुर्दुर्भिक्षजलनाशकरा मताः
सच्छस्त्रावृष्टिदो मूले ऽहिर्बुध्न्यभयोर्भयम्
चरत्र्छैश्चरो नॄणां सुभिक्षारोग्यस्यकृत्