सुभिक्षकृद्विशालेन्दुरविशालोघनाशनः
कुजाद्यैर्निहते शृङ्गे मण्डले वा यथाक्रमम्
सत्याष्टनवमर्क्षेषु सोदयाद्विक्रिमे कुजे
दशमैकादशे ऋक्षे द्वादशर्वाग्रतीपयः
कुजे त्रयोदशे ऋक्षे वक्रिते वा चतुर्दशे
पञ्चदशे षोडशर्क्षे वक्रे स्याद्रुधिराननम्
अष्टादशे सप्तदशे तद्वक्रं मुशलाह्वयम्
फआल्गुन्योरुदितो भौमो वैश्वदेवे प्रतीपगः
उदितः श्रवणे पुष्ये वक्तृगोश्वनहानिदः
मधामध्यगतो भौमस्तत्र चैव प्रतीपगः
पितृद्विदैवधातॄणां भिद्यन्ते गण्डतारकाः
त्रिषूत्तरासु रोहिण्यां नैरृते श्रवणे मृगे
भूमिजः सर्वधिष्ण्यानामुदगामी शुभघप्रदः
विनोत्पातेन शशिनः कदाचिन्नोदयं व्रजेत्
वसुवैष्णवविश्वेन्दुधातृभेषु चरन्बुधः
आर्द्रादिपितृभान्तेषु दृश्यते यदि चन्द्रजः
हस्तादिषट्सु तारासु विचरन्निन्दुनन्दनः
अहिर्बुध्न्यार्यमाग्नेययाम्यभेषु चरन्बुधः
पूर्वात्रयेचरन्सौम्यो योगतारां भिनत्ति चेत्
याम्याग्निधातृवायव्यधिष्णयेषु प्राकृता गतिः
भाग्यार्यमेज्यादितिषु संक्षिप्ता गतिरुच्यते
योमातिकातिविश्वाबुमूलमत्स्यैन्यजस्य च
इन्द्राग्निमित्रमार्तण्डभेषु पापाह्वयागतिः
यावन्त्येव दिनान्येष दृश्यस्तावत्यदृश्यगः
पञ्चदशैकादशभिर्दिवसैः शशिनन्दनः
मिश्रसक्षिप्तयोर्मध्ये फलदो ऽन्यासु वृष्टिदः
जगतां पापफलदस्त्वितरेषु शुभप्रदः
उदितश्चन्द्रजः श्रेष्ठो रजतस्फटिकोपयः
शुचिर्मध्यो नभः श्रेष्ठो भाद्रः श्रेष्ठः क्वचिन्नरः
शुभप्रदौ पौषमाधौ मध्यमौ फआल्गुनो मधुः