बुभुजे तानि सर्वाणि निराकृत्य दिवौकसः
भजन्ति सागरास्ता वै कचग्रहबलात्कृताः
भूषयन्ति स्वदेहानि मद्यपानपरायणाः
मित्रैश्च योद्रुमारब्धा बलिनो ऽत्यन्तपापिनः
विचारं परमं चक्रुरेतेषुं नाशहेतवे
कपिलं देवदेवेशं ययुः प्रच्छन्नरुपिणः
प्राणम्य दण्डवद्रूमौ तुष्टुवुव्रिदशास्ततः
नररुपप्रतिच्छिन्नविष्णवे जिष्णवे नमः
संसारारण्यदावाग्रे धर्मपालनसेतवे
सागरैः पीडितानस्मांस्त्रायस्व शरणागतान्
त एव लोकान्बाधन्ते नात्राश्वार्यं सुगेतमाः
तं विद्यात्सर्वलोकेषु पापभोगरतं सुराः
तं हन्ति दैवमेवाशु नात्र कार्या विचारणा
प्रणम्य तं यथान्यायं गता नाकं दिवौकसः
आरेभे हयमेधाख्यं यज्ञं कर्त्तुमनुत्तमम्
पाताले स्थापयामास कपिलो यत्र तिष्टति
अन्वेष्टुं बभ्रभुर्लोकान् भूरादींश्च सुविस्मिताः
चख्नुर्महीतलं सर्वमेकैको योजनं पृथक्
तद्वारेण गताः सर्वे पातालं सगरात्मजाः
विचिन्वन्ति हयं तत्र मदोन्मत्ता विचेतसः
कपिलं ध्याननिरतं वाजिनं च तदन्तिके
हन्तुमुद्युक्तमनसो विद्रवन्तः समासदन्
गुह्यतां गृह्यतामाशु इत्यूचुस्ते परस्परम्
सन्ति चारो खला लोके कुर्वन्त्याडम्बरं महत्
समस्तेन्द्रियसंदोहं नियम्यात्मानमात्मनि
आस्थितः कपिलस्तेषां तत्कर्म ज्ञातवान्नहि
पद्भिः संताडयामासुर्बुहूं च जगृहुः परे
उवाच भावगम्भीरं लोकोपद्रवकारिणः
अहॄङ्कारविमूढानां विवेको नैव जायते
तदेव मानवा भुक्त्वा ज्वलन्तीति किमद्भुतम्