वरिमण्डलगैर्धूम्रैः सस्फुलिङ्गैर्जगत्क्षयः
घ्नन्ति द्वित्रिचतुर्वर्णैर्भुवि राजजनान्मुने
पीतैर्नृपसुतः श्वेतैः पुरोधाश्चित्रितैर्जनाः
शुभोर्ऽकः शिशिरे ताम्रः कुङ्कुमाभा वसंतिके
पद्मोदराभः शरदि हेमन्ते लोहितच्छविः
रोगानावृष्टिभयकृत् क्रमादुक्तो मुनीश्वर
शशरक्तनिभे भानौ संग्रामो न चिराद्भुवि
चन्द्रमासदृशो भानुः कुर्याद्भूपान्तरं क्षितौ
छिद्रेर्ऽकमण्डले दृष्टं महाराजविनाशनम्
छत्राकृते देशहतिः खण्डभानुनृपान्तकृत्
तदा नृपवधो ज्ञेयस्त्वथवा राजविग्रहः
राजानमन्यं कुरुतो लोहिताम्बुदयास्तगौ
घनैर्युद्धं खरोष्ट्राद्यैः पापरूपैर्भयप्रदम्
सौम्यशृङ्गोन्नतः श्रेष्ठो नृयुङ्मकरयोस्तथा
चापवत्कौर्महॄर्ंयोश्च शूलबत्तुलकर्कयोः
आषाढद्वयमूलेन्द्रधिष्ण्यानां याम्यगः शशी
विशाखा मित्रयोर्याम्यपार्श्वगः पापगः शशी
अप्राप्यपौष्णभाद्रामदुक्षाविशशी शुभः
यमेन्द्राहीशनोयेशमरुतश्चार्द्धतारकाः
याम्यशृङ्गोन्नतो नेष्टः शुभः शुक्ले पिपीलिका
सुभिक्षकृद्विशालेन्दुरविशालोघनाशनः
कुजाद्यैर्निहते शृङ्गे मण्डले वा यथाक्रमम्
सत्याष्टनवमर्क्षेषु सोदयाद्विक्रिमे कुजे
दशमैकादशे ऋक्षे द्वादशर्वाग्रतीपयः
कुजे त्रयोदशे ऋक्षे वक्रिते वा चतुर्दशे
पञ्चदशे षोडशर्क्षे वक्रे स्याद्रुधिराननम्
अष्टादशे सप्तदशे तद्वक्रं मुशलाह्वयम्
फआल्गुन्योरुदितो भौमो वैश्वदेवे प्रतीपगः
उदितः श्रवणे पुष्ये वक्तृगोश्वनहानिदः
मधामध्यगतो भौमस्तत्र चैव प्रतीपगः