पूर्वापरार्द्धैर्लग्नस्य सौम्ये वाच्यपनेजनिः
ग्रीष्मोगेर्ऽके परै रम्यापनतांपृतुरर्कभात्
दृक्कैराद्यैः पूर्वमासस्तिथिस्तत्रानुपाततः
त्रिकोणोत्तमवार्थन्तिलग्नं वा लभनाभने
गोहरी युग्मवसुभे क्रियजुके मृगाङ्गने
जीवभौमकविज्ञाः स्यु राघवाद्यायरेज्ञवत्
सप्तर्घ्नं भहृतं शेषमृक्षं नवधनर्णतः
सप्तघ्नं होनिशार्क्षाणीषुघ्नेङ्गांशेष्टहोरिका
दृष्टर्तिकपदाश्वास्या रक्तवस्त्रा घटाकृतिः
क्षुत्तृषार्तोदुग्धपटो लूनकुञ्चितमूर्धजः
द्विपकायः सरभयात्पिंपगलो व्याकुलान्तरः
उद्याने कवची धन्वी क्रीडेच्छर्गरुडाननः
द्विपास्यकण्ठः क्रोडास्यः काननेशरमाहिकः
चिपिटास्यो हि संवीतो नौस्थः रत्र्यर्थंव्रजञ्जले
धन्वी कृष्णाजिनी सिंहवाश्वोन्नतमातुरः
पुष्पपूर्णच्छटाकन्याविद्येल्ला मलिनांवरा
गौरीधौतांशुकात्सुच्चाकुंभदृस्तासुरालये
क्षुत्तृङ्युतो नरः कुंभीगृध्नस्य स्त्रीसुतोपगः
सिंधेकूजंव्रजन्तीस्त्रीनानासर्पसित हिका
कूर्मास्यो मलये सिंहः श्वक्रोण्डमृगभीषकः
चंपकाभासने मध्या सिंधुरत्रविवर्द्धिनी
परमो ऽथो गृध्रमुखः स्नेहमद्याशनस्पृहः
भाण्डी रोमश्चवाः श्यामः किरीटी फलयन्त्रधृक्
नौस्थब्धेः कूलमायान्ती सयूथां चम्पकानना
एतादृशाङ्क्रियांशाः स्तु षत्रिंशदुदीताः क्रमात्
निबोध संहितास्कन्धं लोककृत्युपयोगिनम्
चैत्रशुक्लप्रतिपदि यो वारः स नृपः स्मृतः
समोद्यधीश्वरः सूर्यो मध्यमश्चोत्तमोविधुः
अधमो रविजो वाच्यो ज्ञात्वा चैषां बलाबलम्
दृष्टेर्ऽकमण्डले व्याधिर्भ्रान्तिश्चोरार्थनाशनम्