स्त्रीलोलः क्रोधनः कौजे बौधे विद्वांश्च नैपुणः
शौक्रे सौभाग्ययुक्कान्तः सौरेति मृदुकर्मकृत्
ज्ञेद्वोः कलासु निपुणा सुखिता च गुणान्विता
वैधव्यं च मृतिस्तस्या स्वयंसत्स्वर्थगेषु तु
सौरे मध्यबले चन्द्रशुक्रज्ञैर्बलवर्जितैः
जीवारकविशौम्येषु बलिषु समभे तनौ
पापे ऽस्ते नवमस्थस्य प्रव्रज्यामेति भामिनी
मृत्युस्थानं पश्यतां स्याद्वलिना धातुकोपतः
सवीर्यैर्बहुजो ऽग्न्यक्षतज्वररुगुद्भवः
परस्वाध्वप्रदेशेषु मृत्युः सूर्यमहीजयोः
बन्ध्वस्तकर्मगैर्मन्दभूजैः प्रहौ मृतिः
तोयमृतो रवीदृतुस्यातांया द्युभयोदये
मृत्युश्चाथ मृगे चन्द्रे कर्के मन्दे जलोदरात्
पुत्रधर्मस्थस्योर्वन्धात्पापयोः सददृष्टयोः
स्त्रियां सपापे ऽब्जे द्यूने सिते मेषे रवौ तनौ
यमे खेंऽगत्रिकोणर्स्थेः क्षीणचन्द्रांशुभैः सकृत्
रन्ध्रखाङ्गजलैः क्षीणेन्द्वारार्किरविसंयुतैः
धूमानिबन्धनैः कार्यः कुदनैर्मरणं भवेत्
सौरेद्वारैः स्वांबुरवस्थैः क्षतक्रेम्यङ्गया ततः
यन्त्रोसीदुनतः क्षीणचन्द्रयुक्ते मृतिर्भवेत्
क्षीणेन्द्वर्ककुजैः खास्तांबुस्थैर्वारकरे मृतिः
गुह्यरुक्कृमिशस्त्राग्निदारुजो मृत्युरङ्गिराः
लग्नध्यायास्त पःखार्कभौमचन्द्रनिशाकरैः
दृक्कोन्त्तरे तुर्द्धाविंशस्तत्पतिर्मृत्युपोपि वा
लग्नांशेशसदृक्स्थाने मृत्युर्योगेक्षणादिभिः
शुभेक्षिते तु त्रिगुणः कल्प्यमन्यत्स्वबुद्धितः
बिन्दुतश्चिन्तनीयश्च यथोक्तो मत्युरङ्गिनः
देवपित्रतिरक्तोथ नारकान्कुर्युरष्टमे
तुङ्गगः सांदनूकेनुगतिः षड्रन्ध्रदृक्कपः
स्वोच्चस्थोंऽगे व्यये सौम्यभागे मोक्षो बलान्यतः