कोणोदये ऽस्तां त्यसन्धौ भृगौ बन्ध्यापतेर्जनिः
पापे धीस्थे विधौ क्षीणजन्मा सुतकलत्रिणः
तौ चेत्सेंदुस्रिया सार्द्धं पुंश्चलो जायते नरः
नृस्रियो स्तु शुभैर्दृष्टौ तौ द्वौ परिणताङ्गकौ
शिल्पी त्र्येशे बुधयुते केन्द्रसंस्थार्किवीक्षिते
नीचेर्ऽकेन्दोरस्तगयोर्दृष्टयोः सूर्यजेन वा
कर्काल्यं शगते केन्द्रे पापयुक्ते तु गुह्यरुक्
चन्द्रे खे ऽस्ताङ्गते भौमे विकलो वेशिगेर्ऽकजे
निधनारिधनान्त्यस्था रवीन्द्वारयमा यदा
सौम्या दृष्टा न वायत्रिधीगताः पापखेचराः
लग्ने गुरौ द्युने मन्दे वातरोगादितो भवेत्
कुजेन वात्मजे द्यूने संज्ञेंऽत्ये ऽब्जे च सोन्मदः
सर्पशृङ्खलया शाठ्यैर्दृक्कैर्बल्यशुभेक्षितैः
रविमन्दकुजैः रवस्थैः सौम्यदृष्टैः समण्डलैः
पुञ्जनौ तु फलं पुण्यस्रीणां योग्यं वदेच्च तत्
लग्नेन्दुगं वपुश्चैव यादयूपपीतद्युने
सच्छीलभूषणयुता शुभसंदृष्टयोस्तयोः
अथ पापा गुणोनाश्च पापवीक्षितथोस्तयोः
बाल्यदुष्टा तथा दासी साध्वी मायावती त्वरा
अथ पापा गुणोनाश्च पापवीक्षितयोस्तयोः
बौधे समा या क्लीवा च सती गुणवती चला
वाचाटा कुलटा सिंहे रागी पुन्धीरगम्यता
दासी नीचरता साध्वी मान्दे दुष्टा नपत्यका
दृग्गैः मिथोंशे शुक्रार्की शौक्रे चेद्वा घटांशके
शून्ये कापुरुषो द्यूने बले क्लीवो न सदृशि
तत्सृष्टा मदगे सूर्ये स्त्रीबालविधवा कुजे
आग्नेयैर्विधवास्तस्थैः पुनर्भूमिश्रकैर्भघवेत्
मिथोंशगैः सितारौ तु कुरुतो ऽन्यरतां स्त्रियम्
सौरारर्क्षे लग्नगते सेंदुशुक्रे तु वन्धकी
मन्ददृष्टे व्याधियोनिः सद्ग्रहांशे पतिप्रिया