वरं ददावपत्यार्थमौर्वो भार्गवमन्त्रवित्
केशितीं सुमतिं चैव इदमाह प्रहर्षयम्
अपत्यार्थं महाभागे वृणुतां च यथेप्सितम्
केशिन्येकं सुतं वव्रे वंशसन्तानकारणम्
नाम्नासमञ्जाः केशिन्यास्तनयो मुनिसत्तम
तं दृष्ट्वा सागराः सर्वे ह्यासन्दुर्वृत्तचेतसः
चिन्तयामास विधिवत्पुत्रकर्म विगर्हिनम्
कारुकैस्ताड्यते वह्णिरयःसंयोगमात्रतः
शास्त्रज्ञो गुणवान्धर्मी पितामहहिते रतः
अनुष्टानवतां नित्यमन्तराया भवन्ति ते
बुभुजे तानि सर्वाणि निराकृत्य दिवौकसः
भजन्ति सागरास्ता वै कचग्रहबलात्कृताः
भूषयन्ति स्वदेहानि मद्यपानपरायणाः
मित्रैश्च योद्रुमारब्धा बलिनो ऽत्यन्तपापिनः
विचारं परमं चक्रुरेतेषुं नाशहेतवे
कपिलं देवदेवेशं ययुः प्रच्छन्नरुपिणः
प्राणम्य दण्डवद्रूमौ तुष्टुवुव्रिदशास्ततः
नररुपप्रतिच्छिन्नविष्णवे जिष्णवे नमः
संसारारण्यदावाग्रे धर्मपालनसेतवे
सागरैः पीडितानस्मांस्त्रायस्व शरणागतान्
त एव लोकान्बाधन्ते नात्राश्वार्यं सुगेतमाः
तं विद्यात्सर्वलोकेषु पापभोगरतं सुराः
तं हन्ति दैवमेवाशु नात्र कार्या विचारणा
प्रणम्य तं यथान्यायं गता नाकं दिवौकसः
आरेभे हयमेधाख्यं यज्ञं कर्त्तुमनुत्तमम्
पाताले स्थापयामास कपिलो यत्र तिष्टति
अन्वेष्टुं बभ्रभुर्लोकान् भूरादींश्च सुविस्मिताः
चख्नुर्महीतलं सर्वमेकैको योजनं पृथक्
तद्वारेण गताः सर्वे पातालं सगरात्मजाः
विचिन्वन्ति हयं तत्र मदोन्मत्ता विचेतसः