बुध्ने वक्ता सुखी कान्तः पौष्णे शूरो धनी शुचिः
युग्मे स्रीद्यूतशास्रज्ञः स्रैणो ह्रस्वः स्वभे विधौ
धर्मी श्लक्ष्णः सुधीः षष्टे प्राज्ञः प्रांशुर्धनी घटे
मृगे ऽलसो ऽटनः स्वक्षः परदारार्थहृद्धटे
पूज्यो लुब्धो ऽधनसखो मेषादौ भास्करे जनौ
बौधे कृतज्ञो जैवे तु ख्यातः शौक्रे ऽन्यदारिकः
स्रीद्वेष्यः स्वजनद्वेषीनियरत्यः सधीयनः
सेनानीः स्त्र्यर्थपुत्राढ्यः दक्षमैश्यः परिच्छदी
स्त्र्याप्तार्थो मन्दशोकाढ्यो बन्धुद्वेषी धनाघवान्
व्यङ्गजार्थो खप्रसूको विधिमित्रो सुखत्रयः
भूपज्ञगुणिपौरास्वादृष्टेब्जेजेसृगादिभिः
धात्वाजीवी नृपज्ञाभीतन्तुवायाधनाः स्वभे
ज्योतिर्ज्ञाढ्येज्यनु खलु नृपेज्ञादिकर्हरौ
जूके भूपस्वर्णकारवणिजः शेषदृग्युते
ज्ञातिक्ष्माजनयाश्चाये सद्भिर्दर्मी शठस्तथा
कुंभे शेषैश्च हास्यज्ञनृपज्ञाः सद्भिरन्त्यभे
त्र्यंशे तत्पतिमित्रर्क्षगतेर्युक्तेक्षितस्तथा
आरक्षेको वधरुचिर्नियुद्धकुशलोर्ऽथवान्
कविः सुखी बुधांशे तु नटचौरज्ञशिल्पिनः
क्रोधी निधीशो मात्यो वा नृपो हिंस्रो सुतो हरेः
अल्पापत्यो दुःखितो खो दुष्टस्त्रीसौरिभागगे
वर्गोत्तमे खे परभे पल मुक्तं शुभं क्रमात्
राशीक्षणफलं रुद्ध्वा ददात्यंशपलं स्पुटम्
मेषे धनी तैमिरकः सिंहे रात्र्यन्ध एव च
द्वितीयेर्ऽके बहुधनो नृपदण्ड्यो मुखामयी
धनापत्योक्तितो धीस्थे बली शत्रुजितोरिगे
सुतार्थसुखभा भारये दशमे श्रुतशौर्यवात्
मूकोधो बधिरः प्रेष्यो जेगे खाञ्चाजगे धनी
साधुभावः सुखगते धीस्थे कन्याप्रजोलसः
व्याधिपूडान्वितो मृत्यौ भानुर्द्धनगे मित्रधनान्वितः