विनाश दृष्टयुक्ता च पापान्तरगतान्यथा
वक्रात्स्वादिवसाञ्चार्के शुक्राद्यूनां तु षड्रतः
पृध्यन्त्यधीतपाः सुज्ञा ततोवृद्ध्यन्त्यबन्धुराः
स्वदूवृध्यस्तादिषु पृधात्ससाष्टौ पञ्चयोपगः
केन्द्राष्टायान्त्य इज्याद्वा ज्ञज्यायास्तत्र स्वे कवेः
केन्द्राष्टापार्थगः स्वर्क्षान्मन्दाद्गोष्टायकेन्द्रगः
कर्मायव्ययषष्टस्थो जीवाद्भौमः शुभः स्मृतः
साक्षास्ते भूमिजाज्जीवाद्ययारिभवमृत्युगः
षट्खायाष्टाब्धिखोष्विज्यात्सहाद्येषु विलग्नतः
सात्र्यङ्के सन् रवेः शुक्राद्धीखगो दिग्भवारिगः
गोब्धिधीषट्खखाद्या ये ज्ञात्सद्यूने विलग्नतः
स्वात्सज्ञेषु त्रिधीगोब्धी दिक्छिद्रासिगतोर्कजात्
ज्ञाब्धित्र्यायारिगोरात्रिषट्ध्यध्यान्त्यगोषु च
केन्द्रायाष्टधनेष्वर्का लग्नाद्वृद्ध्याद्यबन्धुषु
षडष्टान्त्यगतः शुक्राद्गुरीर्द्वीशान्त्यशत्रुषु
जन्मभाद्वद्विमित्रोच्चस्वभेधिष्टं परेष्वसत्
धनाप्तिः सुखमिष्टाप्तिरिति रेखाफलं क्रमात्
स्वामिलग्राजयोः स्वस्थाद्भेदर्कस्वयशोशयात्
कृष्यंबुजस्रीभ्योब्जांशे कौजे धात्वस्रसाहसैः
शौक्रे रजतगोरत्नैर्मान्दे हिंसश्रमाधमैः
लग्रे वर्गोत्तमे ऽब्जे वा चतुरादिग्रहेक्षिते
भूपकृत्तुङ्गगोर्केगेस्तेसाजार्केखभे गुरौ
सितासृजो गुरौ कर्के साराजे लग्नगे नृपाः
मन्दे मृगाङ्गेत्र्यर्यकांशस्थैरजादिभिर्नृप
लग्ने ऽथ सेज्यकर्केङ्गे ज्ञाजशुक्रैर्भवोपगैः
सिंहकुंभमृगस्थाश्चेद्भूपः सारेतनावजे
धीस्थौ गुर्विदुकवयो भूमौ रत्र्यगे बुधैर्नृपः
कविक्षौ तुलयुरमस्थौ वै भूपः कीर्तिमान्भवेन्त्
वक्ष्यमाणैर्नृपसुतो ज्ञेयो भूयो मुनीश्वर
सिंहेर्ऽके मेषलग्ने ऽजे मृगे भौमे घटे ऽष्टमे