गोब्जास्तत्त्वतिथी सूर्यास्तिथिः स्वर्गा नखाः क्रमात्
नखा विधुर्द्वावङ्काश्च धृतिः स्वाक्षिखमार्गणाः
चक्रशुद्धस्तदा ग्राह्येस्यांशा आयुषिसंमताः
मन्दशुक्तौ विनार्द्धोना ग्रहस्यास्तङ्गतस्य च
विहायारीनंशाद्यैर्हन्यादायुर्लवान् भजेत्
पापस्यांशाः समग्रोना सौम्यस्यार्द्धविवर्जिताः
वर्षाणि शेषमर्कध्नं हारात्संमासकाः स्मृताः
शेषे षष्ट्या हते भक्ते हारेण घटिकादिकम्
भजेद्वर्षाणि शेषे तु गुणिते द्वादशादिभिः
अशायुषी सलग्नानां खेटानामंशका हृताः
ग्रहनलग्नं षड्रात्यं चेत्संस्कारो ऽन्यथा नहि
यदैकाल्यं तदास्तांशाः स्वाग्र्याप्तोना च भूर्गुणः
गुमकध्नाश्चायुरंशाः संस्कारो ऽयमुदाहृतः
शेषं द्विशतभक्तं स्युर्मासाः शेषा दिनादिकम्
शेषेर्ऽकादिगुणे भक्ते दिग्भर्मासादिकं भवेत्
अंशद्विध्नमक्षांशं मासाः खत्र्यादिसंगुणात्
लग्नार्कचन्द्रमध्ये तु यो बली तद्दशा पुरा
बह्वायुर्यो वीर्यसाम्येर्काद्युतस्य प्राक् याचकः
सप्तमासस्य तूर्यस्य चतुरस्रगतस्य च
पाकपस्याब्धिनागाश्च ह्यर्णवा सहगस्य च
तुर्याष्टगस्य तु स्वर्गा गुणकाः परिकीर्तिताः
शेषेर्ऽकादिहते भक्ते मासाद्यैक्येन नारद
दशेशमित्रस्वोच्चक्षङ्गोब्जोब्ध्येकाद्रिवृद्धिगः
प्रोक्तेतरस्थानगतस्तत्तद्भावक्षयं करः
जीविकादिफलं सर्वं दशायां तस्य योजयेत्
शुभमत्रेक्षितश्चेष्टसद्वर्गस्थश्च यो ग्रहः
यस्याष्टवर्गजं चापि फलं पूर्णशुभं भवेत्
स्वत्रिकोणसुहृद्भस्थस्तस्य मध्यमसत्फलम्
नेष्टमुत्कटमिष्टं तु स्वल्पं ज्ञात्वा बलं वदेत्
स्थिरे नेष्टष्टमध्या च होरायास्त्र्यं शकैः फलम्