दीर्घः कपिलदृड्भन्दो निलीखरकचोलसः
मन्दार्कचन्द्रसोम्यास्पुजिज्जीवकुभुवः क्रमात्
चक्रपूर्वापरे पापसौम्यैः कीटतनौ मृतिः
न चेद्दृष्टस्तदा मृत्युर्जातस्य भवति ध्रुवम्
केन्द्रेषु वाब्जोसंयुक्तः स्मरान्त्यमृतिलग्नगः
षष्टेमेब्जे ऽसदृष्टेसद्यो मृत्युः शुभेक्षिते
क्षीणेब्जेङ्गे रन्ध्रकेन्दे पापे पापान्तरस्थिते
पापैश्चन्द्रास्तगैर्मात्रा सार्द्धं सदृष्टिमन्तरा
सग्नस्थे वा विधौपापैरस्तस्थैर्मृतिमाप्नुयात्
लग्ने रवौ तु शस्रेण सवीर्यासद्भिरष्टगैः
शषैस्त्र्यरीशगैरायुरमितं भवति ध्रुवम्
स्वतुङ्गस्थेष्वशेषेषु परमायुः प्रकीर्तितम्
स्वच्चोब्जे स्वर्क्षगैः सौम्यैः सवीर्येङ्गाधिपे तनौ
मूलत्रिकोणगैः सौम्यैर्गुरो स्वोच्चसमन्विते
सवीर्ये सत्सु केन्द्रेषु त्रिंशच्छुद्धियुते ऽष्टमे
लग्नाष्टमेशावष्टस्थौ भाब्दमायुः करौ मतौ
धर्माङ्गस्थेशनौ शुक्रे केन्द्रे ऽब्जे व्ययधर्मगे
लयेशेङ्गे शुभैर्हीने ऽष्टमे रवाब्धिमितं वयः
कवीज्ययोगे सौम्याब्जौ लग्ने मृत्यौ च स्वेषवः
सूर्याधिक बले पैण्डं निसर्गाञ्च विधोर्बले
गोब्जास्तत्त्वतिथी सूर्यास्तिथिः स्वर्गा नखाः क्रमात्
नखा विधुर्द्वावङ्काश्च धृतिः स्वाक्षिखमार्गणाः
चक्रशुद्धस्तदा ग्राह्येस्यांशा आयुषिसंमताः
मन्दशुक्तौ विनार्द्धोना ग्रहस्यास्तङ्गतस्य च
विहायारीनंशाद्यैर्हन्यादायुर्लवान् भजेत्
पापस्यांशाः समग्रोना सौम्यस्यार्द्धविवर्जिताः
वर्षाणि शेषमर्कध्नं हारात्संमासकाः स्मृताः
शेषे षष्ट्या हते भक्ते हारेण घटिकादिकम्
भजेद्वर्षाणि शेषे तु गुणिते द्वादशादिभिः
अशायुषी सलग्नानां खेटानामंशका हृताः