साधुभावं च सर्पाणां श्रेयस्कामो न विश्वसेत्
तानेव दर्शयन्त्याशु स्वसामर्थ्य विपर्यये
अतीव करुणं वाक्यं वदन्त्येव तथाबलाः
साधुत्वं समभावं च खलानां नैव विश्वसेत्
दुष्टां भार्यां च विश्वस्तो मृत एव न संशयः
हत्वैतानखिलान् दुष्टांस्त्वत्प्रसादान्महीं भजे
कराभ्यां सगस्ययाङ्गं स्पृशन्निदमुवाच ह
तथापि मद्वचऋ श्रुत्वा परां शान्तिं लभिष्यसि
हातानां हनवे कीर्तिः का समुत्पद्यते वद
तथापि पापैर्निहताः किमर्थं हंसि तान्पुनः
आत्मा ह्यभेद्यः पूर्णत्वाच्छास्त्राणामेष निश्चयः
कर्माणि दैवमूलानि देवाधीनमिदं जगत्
ततो नरैरस्वतन्त्रैः किं कार्यं साध्यते वद
पापमूलमिदं ज्ञात्वा कथं हन्तुं समुद्यतः
तस्मादिदं वपुर्भूप पापमूलं न संशयः
भविष्यतीति निश्चित्य नैतान्हिंसीस्ततः सुत
स्पृशन्करेण सगरं नन्दनं मुनयस्तदा
राज्याभिषेकं कृतवान्मुनिभिः सह सुव्रतैः
काश्यपस्य विदर्भस्य तनये मुनसत्तम
वनादागत्य राजानं संभाष्य स्वाश्रमं ययौ
वरं ददावपत्यार्थमौर्वो भार्गवमन्त्रवित्
केशितीं सुमतिं चैव इदमाह प्रहर्षयम्
अपत्यार्थं महाभागे वृणुतां च यथेप्सितम्
केशिन्येकं सुतं वव्रे वंशसन्तानकारणम्
नाम्नासमञ्जाः केशिन्यास्तनयो मुनिसत्तम
तं दृष्ट्वा सागराः सर्वे ह्यासन्दुर्वृत्तचेतसः
चिन्तयामास विधिवत्पुत्रकर्म विगर्हिनम्
कारुकैस्ताड्यते वह्णिरयःसंयोगमात्रतः
शास्त्रज्ञो गुणवान्धर्मी पितामहहिते रतः
अनुष्टानवतां नित्यमन्तराया भवन्ति ते