देवतेन्द्वग्निरैवलाभूकोसखायोपराधिपाः
स्फुटितं रवितस्तांम्रं तारे ताम्रपुनिस्तथा
सौरशुक्रारचन्द्रज्ञगुरुषूद्यत्सु च क्रमात्
सौरेज्यारापरे पूर्णे क्रमात्पश्यन्ति नारद
कटुतिक्तक्षारमिश्रमधुराम्लकषायकाः
जीवो जीवज्ञौ सितज्ञौ व्यर्का व्याराः क्रमादमी
मिथोधनव्ययायत्रिबन्धुव्यापारगः सुहृत्
मत्कालोधिसुहृन्मित्रपूर्वकान्कल्पयेत्पुनः
दिक्षु सौम्येज्ययोः सूर्यारयोः सौरे सिताब्जयोः
उत्तरस्था दीप्तकराश्चेष्टा वीर्ययुता मताः
क्रूराः कृष्णे सिते सौम्याः मतं कालबलं बुधैः
पापास्तु बलिनः सौम्या विवक्षाः कण्टकोपगे
स्वांशे पापाः परांशस्थाः सौम्यालग्नं वियोनिजम्
शीर्षं वक्रगले पादावंसौ पृष्टमुरस्तथा
पुच्छं चतुष्पदाङ्गेषु मेषाद्या राशयः स्मृताः
दृक्समानप्रमाणांश्च इष्टे रेखां स्मरस्थितैः
वांशे स्थलांबुजः सौरेर्द्वीक्षायोगभवा द्विजाः
स्थलांबुभेन्दोशकृतश्चेतरेषामुदाहृतः
तावन्त एव तखः स्थलजा जलजास्तथा
भौमे कण्टकिनो वृक्षा ईज्ये ज्ञे सफलाफलौ
अशुभर्क्षे शुभः खेटः शुभं वृक्षं कुभूमिजम्
कुजेन्दुहेतुकं स्रीणां प्रतिमासमिहार्तवम्
पापयुक्तेक्षिते द्यूने रुषा प्रीत्या शुभग्रहैः
भवेदपत्यं विप्रेन्द्र पुंसां सद्वीर्यशालिनाम्
व्ययखगो युक्तौ चैकदृष्ट्या नृत्युप्रदौ तयोः
मातृष्वसृपितृव्याख्यौ वा पद्मेजि समे शुभौ
क्षीणेन्दुकुजसंदृष्टे मृत्युमेत्य गता ध्रुवम्
यदा तदा गर्भयुता नारी मृत्युमवाप्नुयात्
नष्टेन्दौ कुजरव्योश्च बन्धुरिष्पगयोर्मृतिः
यन्मासाधिपतिर्नष्टस्तन्मासं संस्रवे त्यजेत्