यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा
यदान्यत्वं विधोः क्रान्तिः क्षेपाच्चेद्यदि शुद्ध्यति
तच्चापान्तर्मर्द्धवायोर्ज्यभाविनशीतगौ
चन्द्रभुक्त्या हृतं भानौ लिप्तादिशशिवत्फलम्
कर्मैतदसकृत्तावत्क्रान्ती यावत्समेतयोः
हीनेर्ऽद्वरात्रघिकाघतो भावी तात्कालिके ऽधिका
षष्टिश्चाचन्द्रभुक्ताप्ता पातकालस्य नाडिकाः
तयोर्भुक्तयन्तरेणाप्तं स्थित्यमर्द्धां नाडिकादिवत्
तस्य संभवकालः स्यात्तत्संयोगेक्तसंज्ञकः
प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः
जातकं वाच्मि समयाद्राशिसंज्ञापुरःसरम्
जानुजङ्घाङ्घ्नियुगलं कालाङ्गानि क्रियादयः
गुरुमन्दार्किगुरवो मेषादीनामधीश्वराः
आदिपञ्चनवाधीशाद्रेष्काणेशाः प्रकीर्तिताः
ओजे विपर्ययाद्युग्मे त्रिशांशेशाः समीरिताः
स्वभाद्द्वादशभागेशाः षर्ड्गं राशिपूर्वकम्
शेषा दिनाख्यास्तूभयं तिमिः क्रूरः सौम्यः पुमान्
मेषाद्याः पूर्वतोदिक्स्थाः स्वस्वस्थानचरास्तथा
उच्चानि द्वित्रिमनुयुक्तिथीषुभनखांशकैः
वर्गोत्तमाश्चराधेषु भावाद्द्वादश मूर्तिमान्
चतुरस्रं तूर्यमृत्युत्रिकोणं नवपञ्चमम्
नृपादः कीटपशवो बलाढ्याः केन्द्रगाः क्रमात्
रक्तः श्वेतः शुकनिभः पाटलो धूम्रपाण्डुरौ
साम्याशाख्यप्लवत्वं स्याद्द्वितीये वशिरर्कभात्
जीवो ज्ञानं सुखं शुक्रः कामो दुःखं दिनेशजः
सचिवो सूर्यजः प्रेष्यो मतो ज्योतिर्विदां वरैः
वर्णा व अव्यहहरीद्रा शचीकौधिपारवेः
क्षीणेन्द्वर्काररविजाः पापा पापयुतो बुधः
शिखिभूमिपयोवारिवासिनो भूसुतादयः
सौराएंऽत्यजाधिपः प्रोक्तो राहुर्म्लेच्छाधिपस्तथा