तदन्यथाधिके तस्मिन्नेवं स्पष्टे सुखान्त्यगे
पूर्णान्तं मध्यमत्र स्याद्दर्शान्तेञ्जं त्रिभोनकम्
तद्दिघ्नांशकृतिद्व्यूनार्द्धार्कयुता हरिः
हराप्तालंबनं स्वर्णवित्रिभेर्काधिकोनके
शरोनोलंबनषडघ्ने तल्लवाढ्योनवित्रिभात्
शब्देन्दुलिप्तैः षड्भिस्तु भक्तानतिर्नतिर्नतांशदिक्
ततश्छन्नस्थितिदले साध्ये स्थित्यर्द्धषट्त्रिभिः
संस्कृतेस्ताभ्यां स्थित्यर्द्धे भवतः स्फुटे
अर्काद्यूना विश्व ईशा नवपञ्चदशांशकाः
दृष्ट्वा ह्यादौ खेटबिंबं दृगौञ्च्ये लंबमीक्ष्य च
अस्ते सावयवा ज्ञेया गतैष्यास्तिथयो बुधैः
संस्कारदिकलंबनमङ्गुलाद्यं प्रजायते
शृङ्गमन्यत्र उद्वाच्यं बलनाङ्गुललेखनात्
विकृज्यकाङ्गसिद्धाग्निभक्तालब्धोनसंयुताः
ऋज्वोरनृज्वोर्विवरं गत्यन्तरविभाजितम्
खनत्यासंस्कृतौव्वेषूदक्साम्येन्येन्तरं युतिः
यदा भेदोलंबनाद्यं स्फुटार्थं सूर्यपर्ववत्
तयुते मण्डले क्रान्त्यौ तुल्यत्वे वै धृताभिधः
समास्तदा व्यतीपातो भगणार्द्धे तपोयुतौ
दृक्कल्पसाधितांशादियुक्तयोः स्वावपक्रमौ
यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा
यदान्यत्वं विधोः क्रान्तिः क्षेपाच्चेद्यदि शुद्ध्यति
तच्चापान्तर्मर्द्धवायोर्ज्यभाविनशीतगौ
चन्द्रभुक्त्या हृतं भानौ लिप्तादिशशिवत्फलम्
कर्मैतदसकृत्तावत्क्रान्ती यावत्समेतयोः
हीनेर्ऽद्वरात्रघिकाघतो भावी तात्कालिके ऽधिका
षष्टिश्चाचन्द्रभुक्ताप्ता पातकालस्य नाडिकाः
तयोर्भुक्तयन्तरेणाप्तं स्थित्यमर्द्धां नाडिकादिवत्
तस्य संभवकालः स्यात्तत्संयोगेक्तसंज्ञकः
प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः