शकुनिर्नागाश्च चतुष्पद किंस्तुघ्नमेव च
तत्र शकाङ्गुलैरिष्टैः सममण्डलमालिखेत्
तच्छायाग्रं स्पृशेद्यत्र दत्तं पूर्वापराह्नयोः
तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तत
दिग्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि
भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा मता
भमण्डलं च विषुवन्मण्डलं परिकीर्तितम्
इष्टच्छायाविषुवतोर्मध्येह्यग्राभिधीयते
प्रोह्य शङ्कुकृते मूलं छाया शेकुविपर्ययात्
तद्गुणाद्भदिनैर्भक्त्या द्युगणाद्यदवाप्यते
तत्संस्वकृताद्धहात्कान्तिच्छायावरदलादिकम्
लंबाक्षज्ये तयोश्छाये लंबाक्षौ दक्षिमौ सदा
शेषह्यानांशाः सूर्यस्य तद्वाहुज्याथ कोटिजाः
कोटीज्ययाविभज्याप्ते छायाकर्माबहिर्द्दले
दिग्भेदोपक्रमः शेषस्तस्य ज्या त्रिज्यया हता
कर्कादौ प्रोह्यचक्रार्द्धात्तुलादौ भार्द्धसंयुतात्त
तन्मन्दमसकृद्धामंफलं मध्यो दिवाकरः
चक्रासवो लब्धयुती स्व्रहोरात्रासवः स्मृताः
क्रमादेकद्वित्रिभघाज्या तच्चापानि पृथक् पृथक्
स्वागाष्टयोर्थगोगैकाः शरत्र्येकं हिमांशवः
व्यस्ताव्यस्तैर्युतास्तैस्तैः कर्कटाद्यास्ततस्तु यः
गतभोग्यासवः कार्याः सायनाःस्वेष्टभास्कराः
अभिष्टधटिकासुभ्यो भोग्यासून्प्रविशोधयेत्
शेषं त्रिंशत्क्रमाद्ध्यस्तमशुद्धेन विभाजितम्
प्राक्पश्चान्नतनाडीभ्यस्तद्वल्लङ्कोदयासुभिः
भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च
विराह्वर्कभुजांशाश्चेदिन्द्राल्पाः स्याद् ग्रहो विधोः
अर्कं विधुर्विधुं भूभा छादयत्यथा छन्नकम्
तत्स्वच्छन्नं च मानैक्यार्द्धांशषष्टं दशाहतम्
स्थित्यर्द्धं घटिकादिस्याद्व्यङ्गबाह्वंशसंमितैः