वारप्रवृत्तिवाग्देशे क्षयार्द्धेभ्यधिको भवेत्
इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम्
भचक्रलिप्ताशीत्यंशः परमं दक्षिणोत्तरम्
तत्र वासं द्विगुणितजीवस्रिगुणितं कुजः
राशिलिप्ताष्टमो भागः प्रथमं ज्यार्द्धमुच्यते
आद्येनैव क्रमात्पिण्डान्भक्ताल्लब्धोनितैर्युतान्
परमा पक्रमज्या तु सप्तरन्ध्रगुणेन्दवः
ग्रहं संशोध्य मन्दोञ्चत्तथा शीघ्नाद्विशोध्य च
गताद्भुजज्याविषमे गम्यात्कोटिः पदे भवेत्
लिप्तास्तत्त्वयमैर्भक्ता लब्धज्यापिण्डकं गतम्
तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके
लिप्तास्तत्त्वयमैर्भक्ता लब्धज्या पिण्डकं गतम्
तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके
ज्यां प्रोह्य शेषं तत्त्वताश्वि हॄन्तं तद्विवरोद्धृम्
रवेर्मन्दपरिध्यंशा मनवः शीतगोरदाः
युग्मान्तेर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः
कुजादीनामतः शौघ्न्यायुग्मान्तेर्थाग्निदस्रकाः
ओजान्ते द्वित्रियमताद्विविश्वेयमपर्वताः
ओजयुग्मान्तरगुणाभुजज्यात्रिज्ययोद्धृताः
तद्गुणे भुजकोटिज्येभगणांशविभाजिते
शैऽयकोटिफलं केन्द्रे मकरादौ धनं स्मृतम्
तद्बाहुफलवर्गैक्यान्मूलकर्णश्चलाभिधः
संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं फलम्
त्रिज्याभघ्यस्तं भुजफलं पलकर्णविभाजितम्
एतदादौ कुजादीनां चतुर्थे चैव कर्मणि
शैर्ध्यं माद्यं पुनर्मान्द्यं शैर्घ्यं चत्वार्यनुक्रमात्
धनं ग्रहाणां लिप्तादि तुलादावृणमेव तत्
भचक्रकलिकाभिस्तु लिप्ताः कार्या ग्रहेर्ऽकवत्
कर्कादौ तद्धनं तत्र मकरादावृणं स्मृतम्
स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृताःकलाः