तथा पित्रा विहीनस्तु बहुदुःखान्वितः सुतः
संपृष्टं तद्यथावृत्तं सर्वं तस्मै न्यवेदयत्
हनिष्यामीत्यरातीन्स प्रतिज्ञामकरोत्तदा
प्रस्थापितः प्रतस्थे च तेनैव मुनिना वदा
वशिष्टं स्वकुलाचार्यं प्रात्पः प्रीतिसमन्वितः
सर्वं विज्ञापत्रामास ज्ञानदृष्ट्या विजानते
तेनैव मुनिनावाप खड्गं वज्रोपमं धनुः
आशीर्भिरर्चितः सद्यः प्रतस्थे प्रणिपत्य तम्
सपुत्रपौत्रान्सगणानकरोत्स्वर्गासिनः
केचिद्विनष्टा संत्रस्तास्तथा चान्ये प्रदुद्रुवुः
तृणान्यभक्षयन्केचिन्नग्राश्च विविशुर्जनलम्
सत्वरं शरणं जग्मुर्वशिष्टं प्राणलोलुपाः
चारैर्विज्ञातवान्सद्यः प्रात्प श्चाचार्यसन्निधिम्
त्रातुं च शिष्याभिहितं च कर्तुं विवारयामास तदा क्षणेन
अन्धांश्च श्मश्रुलान्सर्वान्मुण्डान्वेदवहिष्कृतान्
प्रहसन्प्राह सगरः स्वगुरुं तपसो निधिम्
सर्वथाहं हनिष्यामि मत्पितुर्देशहारकान्
स एव सर्वनाशाय हेतुभूतो न संशयः
त एव बलहीनाश्चेद्भजन्ते ऽत्यन्तसाधुताम्
तावत्कुर्वन्ति कार्याणि यावत्स्यात्प्रबलं बलम्
साधुभावं च सर्पाणां श्रेयस्कामो न विश्वसेत्
तानेव दर्शयन्त्याशु स्वसामर्थ्य विपर्यये
अतीव करुणं वाक्यं वदन्त्येव तथाबलाः
साधुत्वं समभावं च खलानां नैव विश्वसेत्
दुष्टां भार्यां च विश्वस्तो मृत एव न संशयः
हत्वैतानखिलान् दुष्टांस्त्वत्प्रसादान्महीं भजे
कराभ्यां सगस्ययाङ्गं स्पृशन्निदमुवाच ह
तथापि मद्वचऋ श्रुत्वा परां शान्तिं लभिष्यसि
हातानां हनवे कीर्तिः का समुत्पद्यते वद
तथापि पापैर्निहताः किमर्थं हंसि तान्पुनः